← ग्रंथालय में श्रीदुर्गासप्तशती
जगत की जननी माँ चण्डिका को प्रणाम
श्रीदुर्गासप्तशती, जिसे देवीमाहात्म्य और चण्डीपाठ भी कहा जाता है, मार्कण्डेयपुराण का देवी-महिमा विषयक ग्रंथ है। इसके तेरह अध्यायों में राजा सुरथ और समाधि वैश्य की जिज्ञासा, महामाया का स्वरूप, मधु-कैटभ, महिषासुर तथा शुम्भ-निशुम्भ के संहार और देवी की कृपा का वर्णन आता है।
यहाँ सभी तेरह अध्यायों का मूल संस्कृत पाठ एक ही स्थान पर दिया गया है। देवीकवच, अर्गला, कीलक, अपराधक्षमापण और ऋग्वेदोक्त देवीसूक्त भी साथ हैं। हिन्दी भावार्थ छोटे प्रसंगों के अनुसार दिया गया है; वह प्रत्येक पद का शब्दशः अनुवाद नहीं है।
सप्तशती की परंपरागत 700 मन्त्र-गणना में “उवाच”, अर्धश्लोक और स्तुति की आवृत्तियाँ भी आती हैं। इसलिए प्रत्येक क्रमांक को स्वतंत्र दो-पंक्ति वाला श्लोक मानना उचित नहीं। पाँचवें अध्याय में कुछ प्रणाम-मन्त्र संयुक्त क्रमांकों में दिए गए हैं।
श्रीचण्डिकाध्यानम्
ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् ।
स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् ॥
त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् ।
पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात् ॥
दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम् ।
अथवा
या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा
सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॥
श्रीचण्डिका का ध्यान
देवी का ध्यान कमलवत् मुख, त्रिनेत्र, रक्तवस्त्र, मुण्डमाला और पुस्तक, माला, वर तथा अभय देने वाले हाथों से सम्पन्न जगन्माता के रूप में किया गया है। दूसरे ध्यान में मधु-कैटभ, महिषासुर, धूम्रलोचन, चण्ड-मुण्ड, रक्तबीज और शुम्भ-निशुम्भ का संहार करने वाली, भक्तों को सिद्धि देने वाली चण्डी से रक्षा की प्रार्थना है।
अथ देवी कवचम्
अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः , अनुष्टुप् छन्दः ,
चामुण्डा देवता , अङ्गन्यासोक्तमातरो बीजम् ,
दिग्बन्धदेवतास्तत्वम् , श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः ।
ॐ नमश्चण्डिकायै ।
मार्कण्डेय उवाच ।
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १॥
ब्रह्मोवाच ।
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २॥
प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा ।
सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥ ४॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५॥
अग्निना दह्यमानास्तु शत्रुमध्यगता रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६।
न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।
आपदं न च पश्यन्ति शोकदुःखभयङ्करीम् ॥ ७॥
यैस्तु भक्त्या स्मृता नित्यं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसि तान्न संशयः ॥ ८॥
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९॥
नारसिंही महावीर्या शिवदूती महाबला ।
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ॥ १०॥
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ।
श्वेतरूपधरा देवी ईश्वरी वृषवाहना ॥ ११॥
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ।
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ॥ १२॥
नानाभरणशोभाढ्या नानारत्नोपशोभिताः ।
श्रैष्ठैश्च मौक्तिकैः सर्वा दिव्यहारप्रलम्बिभिः ॥ १३॥
इन्द्रनीलैर्महानीलैः पद्मरागैः सुशोभनैः ।
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ॥ १४॥
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ।
खेटकं तोमरं चैव परशुं पाशमेव च ॥ १५॥
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ।
दैत्यानां देहनाशाय भक्तानामभयाय च ॥ १६॥
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ।
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ॥ १७॥
महाबले महोत्साहे महाभयविनाशिनि ।
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥ १८॥
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ।
दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ॥ १९॥
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ।
उदीच्यां पातु कौबेरी ईशान्यां शूलधारिणी ॥ २०॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥ २१॥
जया मामग्रतः पातु विजया पातु पृष्ठतः ।
अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥ २२॥
शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ।
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ॥ २३॥
नेत्रयोश्चित्रनेत्रा च यमघण्टा तु पार्श्वके ।
त्रिनेत्रा च त्रिशूलेन भ्रुवोर्मध्ये च चण्डिका ॥ २४॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत् कर्णमूले तु शङ्करी ॥ २५॥
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृताबाला जिह्वायां च सरस्वती ॥ २६॥
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २७॥
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २८॥
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ।
स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी ॥ २९॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नरेश्वरी ॥ ३०॥
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥ ३१॥
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा ।
मेढ्रं रक्षतु दुर्गन्धा पायुं मे गुह्यवाहिनी ॥ ३२॥
कट्यां भगवती रक्षेदूरू मे मेघवाहना ।
जङ्घे महाबला रक्षेत् जानू माधवनायिका ॥ ३३॥
गुल्फयोर्नारसिंही च पादपृष्ठे तु कौशिकी ।
पादाङ्गुलीः श्रीधरी च तलं पातालवासिनी ॥ ३४॥
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कौमारी त्वचं योगीश्वरी तथा ॥ ३५॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३६॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ ३७॥
शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ।
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ ३८॥
प्राणापानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना ॥ ३९॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ४०॥
आयू रक्षतु वाराही धर्मं रक्षतु पार्वती ।
यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी ॥ ४१॥
गोत्रमिन्द्राणी मे रक्षेत् पशून् रक्षेच्च चण्डिका ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४२॥
धनेश्वरी धनं रक्षेत् कौमारी कन्यकां तथा ।
पन्थानं सुपथा रक्षेन्मार्गं क्षेमङ्करी तथा ॥ ४३॥
राजद्वारे महालक्ष्मीर्विजया सतत स्थिता ।
रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥ ४४॥
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ।
सर्वरक्षाकरं पुण्यं कवचं सर्वदा जपेत् ॥ ४५॥
इदं रहस्यं विप्रर्षे भक्त्या तव मयोदितम् ।
पादमेकं न गच्छेत् तु यदीच्छेच्छुभमात्मनः ॥ ४६॥
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ।
तत्र तत्रार्थलाभश्व विजयः सार्वकालिकः ॥ ४७॥
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४८॥
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ।
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४९॥
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ५०॥
दैवीकला भवेत्तस्य त्रैलोक्ये चापराजितः ।
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥ ५१॥
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ।
स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् ॥ ५२॥
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ।
भूचराः खेचराश्चैव कुलजाश्चौपदेशिकाः ॥ ५३॥
सहजा कुलजा माला डाकिनी शाकिनी तथा ।
अन्तरिक्षचरा घोरा डाकिन्यश्च महारवाः ॥ ५४॥
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ।
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ ५५॥
नश्यन्ति दर्शनात्तस्य कवचेनावृतो हि यः ।
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिः परा भवेत् ॥ ५६॥
यशोवृद्धिर्भवेत् पुंसां कीर्तिवृद्धिश्च जायते ।
तस्मात् जपेत् सदा भक्तः कवचं कामदं मुने ॥ ५७॥
जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।
निर्विघ्नेन भवेत् सिद्धिश्चण्डीजपसमुद्भवा ॥ ५८॥
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ।
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ॥ ५९॥
देहान्ते परमं स्थानं सुरैरपि सुदुर्लभम् ।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ६०॥
तत्र गच्छति गत्वासौ पुनश्चागमनं नहि ।
लभते परमं स्थानं शिवेन समतां व्रजेत् ॥ ६१॥
॥ इति श्रीमार्कण्डेयपुराणे हरिहरब्रह्मविरचितं
देवीकवचं समाप्तम् ॥
देवीकवच का सरल भावार्थ
मार्कण्डेय के प्रश्न पर ब्रह्मा नवदुर्गाओं—शैलपुत्री, ब्रह्मचारिणी, चन्द्रघण्टा, कूष्माण्डा, स्कन्दमाता, कात्यायनी, कालरात्रि, महागौरी और सिद्धिदात्री—का स्मरण कराते हैं। इसके बाद मातृशक्तियों के वाहन और आयुधों का वर्णन है। ऐन्द्री, वाराही, ब्रह्माणी, वैष्णवी और अन्य देवीरूपों से दसों दिशाओं में रक्षा की प्रार्थना की गई है। जया, विजया, अजिता और अपराजिता से आगे, पीछे तथा दोनों ओर रक्षा माँगी गई है। देवी के विभिन्न नामों से सिर, नेत्र, वाणी, हृदय, हाथ, चरण, आन्तरिक अंग, मन, बुद्धि, प्राण और इन्द्रियों की रक्षा का निवेदन है। आयु, धर्म, यश, परिवार, धन और यात्रा के लिए भी संरक्षण माँगा गया है। फलश्रुति में श्रद्धापूर्वक कवचपाठ से निर्भयता, कल्याण और अन्त में परम पद की महिमा कही गई है। कवच के बाद सप्तशती के मुख्य पाठ का उल्लेख है।
अथ अर्गलास्तोत्रम्
ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुरृषिः,
अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता,
श्रीजगदम्बाप्रीतये सप्तशतिपाठाङ्गत्वेन जपे विनियोगः ।
ॐ नमश्चण्डिकायै ।
मार्कण्डेय उवाच ।
ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ २॥
मधुकैटभविध्वंसि विधातृवरदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ३॥
महिषासुरनिर्नाशि भक्तानां सुखदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ४॥
धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ५॥
रक्तबीजवधे देवि चण्डमुण्डविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ६॥
निशुम्भशुम्भनिर्नाशि त्रैलोक्यशुभदे नमः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ७॥
वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ८॥
अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ९॥
नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १०॥
स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ११॥
चण्डिके सततं युद्धे जयन्ति पापनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १२॥
देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १३॥
विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १४॥
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १५॥
सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १६॥
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १७॥
देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १८॥
प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १९॥
चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २०॥
कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २१॥
हिमाचलसुतानाथसंस्तुते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २२॥
इन्द्राणीपतिसद्भावपूजिते परमेश्वरि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २३॥
देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २४॥
भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम् ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २५॥
तारिणि दुर्गसंसारसागरस्याचलोद्भवे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २६॥
इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः ।
सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम् ॥ २७॥
॥ इति श्रीमार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् ॥
अर्गला स्तोत्र का सरल भावार्थ
चामुण्डा, जयन्ती, मंगला, काली, भद्रकाली, दुर्गा, शिवा, क्षमा और जगत का पोषण करने वाली देवी को नमस्कार है। स्तोत्र में देवी के प्रमुख असुर-संहारों का स्मरण करके बार-बार प्रार्थना की गई है—माँ! रूप, जय और यश दें तथा द्वेष और विरोधी बाधाओं का नाश करें। भक्तों के दुःख हरने वाली देवी से सौभाग्य, आरोग्य, परम सुख, कल्याण और साधना की सफलता माँगी गई है। समापन में मन के अनुकूल जीवनसाथी और कठिन संसारसागर से पार कराने की प्रार्थना है। इसके बाद मुख्य सप्तशती पाठ करने का उल्लेख आता है।
अथ कीलकस्तोत्रम्
ॐ अस्य श्रीकीलकमन्त्रस्य शिवऋषिः, अनुष्टुप् छन्दः,
श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं
सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
ॐ नमश्चण्डिकायै ।
मार्कण्डेय उवाच ।
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ १॥
सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् ।
सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः ॥ २॥
सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि ।
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ॥ ३॥
न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते ।
विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम् ॥ ४॥
समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ५॥
स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः ।
समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम् ॥ ६॥
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः ।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥ ७॥
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ।
इत्थं रूपेण कीलेन महादेवेन कीलितम् ॥ ८॥
यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः ।
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ॥ ९॥
न चैवापाटवं तस्य भयं क्वापि न जायते ।
नापमृत्युवशं याति मृते च मोक्षमाप्नुयात् ॥ १०॥
ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः ॥ ११॥
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभम् ॥ १२॥
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥ १३॥
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च ।
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ॥ १४॥
चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः ।
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ॥ १५॥
अग्रतोऽमुं महादेवकृतं कीलकवारणम् ।
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ॥ १६॥
॥ इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम् ॥
कीलक स्तोत्र का सरल भावार्थ
कल्याण और ज्ञानस्वरूप भगवान शिव को प्रणाम करके स्तोत्र के कीलक अर्थात् उसकी शक्ति को आवृत्त करने वाले बन्धन का वर्णन किया गया है। स्तवन को श्रद्धा, समर्पण और उसकी मर्यादा के साथ ग्रहण करने पर कल्याण का फल बताया गया है। पाठ में शास्त्रीय मन्त्रसाधना के फल, भय से रक्षा, सौभाग्य और मोक्ष का वर्णन है। हृदय से देवी का स्मरण और स्पष्ट भाव से स्तुति करने का महत्त्व कहा गया है। यह स्तोत्र सप्तशती के पाठांग के रूप में शिवकथित कीलक का निरूपण करता है।
प्रथमचरित्र • महाकाली
अध्याय 1 • मधु-कैटभ वध
परंपरागत पाठ-क्रमांक 1–104
विनियोगः
अस्य श्री प्रथमचरित्रस्य । ब्रह्मा ऋषिः ।
महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः ।
रक्तदन्तिका बीजम् । अग्निस्तत्त्वम् ।
ऋग्वेदः स्वरूपम् । श्रीमहाकालीप्रीत्यर्थे
प्रथमचरित्रजपे विनियोगः ।
। ध्यानम् ।
ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥
ॐ नमश्चण्डिकायै ॥
ध्यान एवं विनियोग का भाव: प्रथमचरित्र की अधिष्ठात्री महाकाली का ध्यान है। वे दशमुखी, दशभुजा और दशचरणरूपा, नीलमणि के समान कान्ति वाली तथा विविध आयुध धारण करने वाली हैं। ब्रह्मा ने विष्णु के जागरण के लिए उन्हीं की स्तुति की थी। विनियोग में इस प्रथमचरित्र का पाठ महाकाली की प्रसन्नता के लिए समर्पित है।
राजा सुरथ का वन में पहुँचना • पाठ 1.1–1.11
पाठ 1.1
ॐ ऐं मार्कण्डेय उवाच ॥ १.१॥
पाठ 1.2
सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ।
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥ १.२॥
पाठ 1.3
महामायानुभावेन यथा मन्वन्तराधिपः ।
स बभूव महाभागः सावर्णिस्तनयो रवेः ॥ १.३॥
पाठ 1.4
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः ।
सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ॥ १.४॥
पाठ 1.5
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् ।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ॥ १.५॥
पाठ 1.6
तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः ।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥ १.६॥
पाठ 1.7
ततः स्वपुरमायातो निजदेशाधिपोऽभवत् ।
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥ १.७॥
पाठ 1.8
अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः ।
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥ १.८॥
पाठ 1.9
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः ।
एकाकी हयमारुह्य जगाम गहनं वनम् ॥ १.९॥
पाठ 1.10
स तत्राश्रममद्राक्षीद्द्विजवर्यस्य मेधसः ।
प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम् ॥ १.१०॥
पाठ 1.11
तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः ।
इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥ १.११॥
सरल हिन्दी भावार्थ: मार्कण्डेय ऋषि बताते हैं कि सूर्यपुत्र सावर्णि भविष्य में आठवें मनु कैसे बनेंगे। पूर्वकाल में चैत्रवंश के राजा सुरथ अपनी प्रजा को पुत्रों के समान पालते थे। शत्रुओं से पराजित होने पर उनके दुष्ट मंत्रियों ने धन और सेना पर अधिकार कर लिया। राज्य छिन जाने पर राजा शिकार के बहाने अकेले वन में गए और शान्त पशुओं तथा शिष्यों से सुशोभित मेधा ऋषि के आश्रम में रहने लगे।
छूटे हुए राज्य की चिन्ता • पाठ 1.12–1.19
पाठ 1.12
सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः ।
मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् ॥ १.१२॥
पाठ 1.13
मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा ।
न जाने स प्रधानो मे शूरो हस्ती सदामदः ॥ १.१३॥
पाठ 1.14
मम वैरिवशं यातः कान् भोगानुपलप्स्यते ।
ये ममानुगता नित्यं प्रसादधनभोजनैः ॥ १.१४॥
पाठ 1.15
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् ।
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ॥ १.१५॥
पाठ 1.16
सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ।
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ॥ १.१६॥
पाठ 1.17
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ।
स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः ॥ १.१७॥
पाठ 1.18
सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे ।
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ॥ १.१८॥
पाठ 1.19
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥ १.१९॥
सरल हिन्दी भावार्थ: आश्रम में रहते हुए भी राजा का मन अपने नगर, प्रजा, सेवकों और प्रिय हाथी की चिन्ता में लगा था। वे सोचते थे कि संचित खजाना व्यर्थ खर्च हो जाएगा और सेवक दूसरे राजाओं के अधीन हो गए होंगे। उसी समय आश्रम के पास उन्हें एक दुखी वैश्य मिला। राजा ने उसका परिचय और दुःख का कारण पूछा।
समाधि वैश्य की ममता • पाठ 1.20–1.34
पाठ 1.20
वैश्य उवाच ॥ १.२०॥
पाठ 1.21
समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ॥ १.२१॥
पाठ 1.22
पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः ।
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ॥ १.२२॥
पाठ 1.23
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ।
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ॥ १.२३॥
पाठ 1.24
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः ।
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ॥ १.२४॥
पाठ 1.25
कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः ॥ १.२५॥
पाठ 1.27
यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः ॥ १.२७॥
पाठ 1.28
तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ॥ १.२८॥
पाठ 1.29
वैश्य उवाच ॥ १.२९॥
पाठ 1.30
एवमेतद्यथा प्राह भवानस्मद्गतं वचः ॥ १.३०॥
पाठ 1.31
किं करोमि न बध्नाति मम निष्ठुरतां मनः ।
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ॥ १.३१॥
पाठ 1.32
पतिस्वजनहार्दं च हार्दितेष्वेव मे मनः ।
किमेतन्नाभिजानामि जानन्नपि महामते ॥ १.३२॥
पाठ 1.33
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ।
तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते ॥ १.३३॥
पाठ 1.34
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥ १.३४॥
सरल हिन्दी भावार्थ: वैश्य ने कहा—मेरा नाम समाधि है। धन के लोभ में पत्नी और पुत्रों ने मेरा धन लेकर मुझे घर से निकाल दिया है। फिर भी मुझे उन्हीं के कुशल की चिन्ता होती है। राजा ने पूछा कि जिन्होंने तुम्हें त्याग दिया, उनसे इतना स्नेह क्यों है? वैश्य ने उत्तर दिया—उनका दोष जानता हूँ, पर मेरा हृदय निष्ठुर नहीं हो पाता; उन्हीं को याद करके दुखी होता हूँ।
मेधा ऋषि से दोनों की जिज्ञासा • पाठ 1.35–1.45
पाठ 1.35
मार्कण्डेय उवाच ॥ १.३५॥
पाठ 1.36
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ॥ १.३६॥
पाठ 1.37
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः ।
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ॥ १.३७॥
पाठ 1.38
उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ ॥ १.३८॥
पाठ 1.40
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ॥ १.४०॥
पाठ 1.41
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ।
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ॥ १.४१॥
पाठ 1.42
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ।
अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ॥ १.४२॥
पाठ 1.43
स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति ।
एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ ॥ १.४३॥
पाठ 1.44
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ।
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ॥ १.४४॥
पाठ 1.45
ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥ १.४५॥
सरल हिन्दी भावार्थ: राजा और वैश्य ने ऋषि के पास जाकर आदरपूर्वक प्रश्न किया। राजा बोले—राज्य और परिवार के दोष समझ लेने पर भी हमारी ममता नहीं मिटती। जिन्होंने हमारा त्याग किया, उन्हीं में मन लगा है। विवेक होते हुए भी यह मोह क्यों होता है? हमारे मन अपने वश में क्यों नहीं रहते?
महामाया का बन्धन और मुक्ति • पाठ 1.46–1.58
पाठ 1.47
ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ॥ १.४७॥
पाठ 1.48
विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक् ।
दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ॥ १.४८॥
पाठ 1.49
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ।
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम् ॥ १.४९॥
पाठ 1.50
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ।
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ॥ १.५०॥
पाठ 1.51
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ।
ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ॥ १.५१॥
पाठ 1.52
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा ।
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ॥ १.५२॥
पाठ 1.53
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि ।
तथापि ममतावर्त्ते मोहगर्ते निपातिताः ॥ १.५३॥
पाठ 1.54
महामायाप्रभावेण संसारस्थितिकारिणा ।
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ॥ १.५४॥
पाठ 1.55
महामाया हरेश्चैषा तया सम्मोह्यते जगत् ।
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ॥ १.५५॥
पाठ 1.56
बलादाकृष्य मोहाय महामाया प्रयच्छति ।
तया विसृज्यते विश्वं जगदेतच्चराचरम् ॥ १.५६॥
पाठ 1.57
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ।
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ॥ १.५७॥
पाठ 1.58
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ १.५८॥
सरल हिन्दी भावार्थ: ऋषि कहते हैं—विषयों का कुछ ज्ञान सभी प्राणियों को होता है। भूखे पक्षी भी अपने बच्चों को दाना खिलाते हैं। मनुष्य भी ममता में बँधते हैं। संसार को धारण करने वाली भगवान की महामाया ज्ञानी लोगों के मन को भी आकर्षित कर लेती हैं। उन्हीं से जगत प्रकट होता है। प्रसन्न होने पर वही सनातनी देवी मुक्ति देने वाली परम विद्या हैं; बन्धन और उससे मुक्ति दोनों उन्हीं की शक्ति के अधीन हैं।
नित्य देवी का आविर्भाव • पाठ 1.59–1.71
पाठ 1.60
भगवन् का हि सा देवी महामायेति यां भवान् ॥ १.६०॥
पाठ 1.61
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज ।
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा ॥ १.६१॥
पाठ 1.62
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ १.६२॥
पाठ 1.64
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥ १.६४॥
पाठ 1.65
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम ।
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ॥ १.६५॥
पाठ 1.66
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ।
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ॥ १.६६॥
पाठ 1.67
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ।
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ॥ १.६७॥
पाठ 1.68
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ।
स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ॥ १.६८॥
पाठ 1.69
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ।
तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः ॥ १.६९॥
पाठ 1.70
विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ।
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥ १.७०॥
पाठ 1.71
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १.७१॥
सरल हिन्दी भावार्थ: राजा ने देवी का स्वरूप, उत्पत्ति और कार्य पूछा। ऋषि ने कहा—वे नित्य हैं और उन्हीं से जगत व्याप्त है। देवताओं का कार्य सिद्ध करने के लिए प्रकट होने पर उन्हें उत्पन्न हुई कहा जाता है। कल्प के अन्त में भगवान विष्णु योगनिद्रा में थे। उनके कान के मल से उत्पन्न मधु और कैटभ ब्रह्मा को मारने दौड़े। ब्रह्मा ने विष्णु को जगाने के लिए योगनिद्रारूपिणी देवी की स्तुति की।
ब्रह्मा की देवी-स्तुति • पाठ 1.72–1.82
पाठ 1.72
ब्रह्मोवाच ॥ १.७२॥
पाठ 1.73
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ॥ १.७३॥
पाठ 1.74
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ।
अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः ॥ १.७४॥
पाठ 1.75
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ।
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ॥ १.७५॥
पाठ 1.76
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ।
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥ १.७६॥
पाठ 1.77
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ।
महाविद्या महामाया महामेधा महास्मृतिः ॥ १.७७॥
पाठ 1.78
महामोहा च भवती महादेवी महेश्वरी ।
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ १.७८॥
पाठ 1.79
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥ १.७९॥
पाठ 1.80
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ १.८०॥
पाठ 1.81
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ॥ १.८१॥
पाठ 1.82
परापराणां परमा त्वमेव परमेश्वरी ।
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥ १.८२॥
सरल हिन्दी भावार्थ: ब्रह्मा कहते हैं—आप ही स्वाहा, स्वधा, वषट्कार, स्वर, अमृत और प्रणव की मात्राओं का नित्य आधार हैं। आप संध्या, सावित्री और परम जननी हैं। आप ही जगत को उत्पन्न करती, धारण करती और अन्त में समेट लेती हैं। महाविद्या, महामाया, मेधा, स्मृति, प्रकृति और तीनों गुणों की शक्ति आप हैं। श्री, बुद्धि, लज्जा, पुष्टि, सन्तोष, शान्ति और क्षमा भी आप ही हैं। आप सौम्य भी हैं और दुष्टों के लिए उग्र आयुधधारिणी भी।
विष्णु के जागरण की प्रार्थना • पाठ 1.83–1.87
पाठ 1.83
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया ।
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ १.८३॥
पाठ 1.84
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ।
विष्णुः शरीरग्रहणमहमीशान एव च ॥ १.८४॥
पाठ 1.85
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ।
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥ १.८५॥
पाठ 1.86
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥ १.८६॥
पाठ 1.87
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ १.८७॥
सरल हिन्दी भावार्थ: ब्रह्मा कहते हैं—प्रत्येक वस्तु की शक्ति आप हैं; आपकी स्तुति करने में मैं कितना समर्थ हूँ? जगत के सृष्टा, पालक और संहारक भी आपकी शक्ति से शरीर धारण करते हैं। जिन भगवान को आपने निद्रा के वश किया है, उन्हें शीघ्र जगाइए। मधु-कैटभ को मोहित कीजिए और भगवान में उनका संहार करने की प्रेरणा जगाइए।
मधु-कैटभ से युद्ध • पाठ 1.88–1.95
पाठ 1.89
एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥ १.८९॥
पाठ 1.90
विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ।
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ १.९०॥
पाठ 1.91
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ॥ १.९१॥
पाठ 1.92
एकार्णवेऽहिशयनात्ततः स ददृशे च तौ ।
मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ॥ १.९२॥
पाठ 1.93
क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ।
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ॥ १.९३॥
पाठ 1.94
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥ १.९४॥
पाठ 1.95
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥ १.९५॥
सरल हिन्दी भावार्थ: स्तुति सुनकर देवी विष्णु के नेत्र, मुख, नासिका, भुजाओं, हृदय और वक्ष से निकलकर ब्रह्मा के सामने प्रकट हुईं। भगवान विष्णु जागे और मधु-कैटभ से दीर्घकाल तक बाहुयुद्ध किया। अपने बल के अभिमान और महामाया के मोह में दोनों असुरों ने उलटे भगवान से ही वर माँगने को कहा।
मधु-कैटभ का संहार • पाठ 1.96–1.104
पाठ 1.96
श्रीभगवानुवाच ॥ १.९६॥
पाठ 1.97
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥ १.९७॥
पाठ 1.98
किमन्येन वरेणात्र एतावद्धि वृतं मया ॥ १.९८॥
पाठ 1.100
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ॥ १.१००॥
पाठ 1.101
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥ १.१०१॥
पाठ 1.102
ऋषिरुवाच ॥ १.१०२॥
पाठ 1.103
तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता ।
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥ १.१०३॥
पाठ 1.104
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ।
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥ १.१०४॥
सरल हिन्दी भावार्थ: भगवान ने वर माँगा कि दोनों असुर उनके हाथों मारे जाएँ। चारों ओर जल देखकर असुरों ने शर्त रखी कि जहाँ पृथ्वी जल में डूबी न हो, वहीं उनका वध किया जाए। भगवान ने उन्हें अपनी जाँघ पर रखकर चक्र से उनके सिर काट दिए। ऋषि कहते हैं—यह देवी के प्रकट होने और ब्रह्मा द्वारा उनकी स्तुति का प्रसंग है; आगे उनका और माहात्म्य सुनो।
। ऐं ॐ ।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
मधुकैटभवधो नाम प्रथमोऽध्यायः ॥ १॥
मध्यमचरित्र • महालक्ष्मी
अध्याय 2 • महिषासुर की सेना का वध
परंपरागत पाठ-क्रमांक 1–69
विनियोगः
अस्य श्री मध्यमचरित्रस्य विष्णुरृषिः ।
श्रीमहालक्ष्मीर्देवता ।
उष्णिक् छन्दः । शाकम्भरी शक्तिः । दुर्गा बीजम् ।
वायुस्तत्त्वम् ।
यजुर्वेदः स्वरूपम् । श्रीमहालक्ष्मीप्रीत्यर्थे
मध्यमचरित्रजपे विनियोगः ।
। ध्यानम् ।
ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥
ध्यान एवं विनियोग का भाव: मध्यमचरित्र का पाठ महालक्ष्मी की प्रसन्नता के लिए समर्पित है। ध्यान में कमल पर स्थित, अरुण कान्ति वाली, अनेक आयुध और जपमाला धारण करने वाली महिषासुरमर्दिनी महालक्ष्मी का स्मरण है।
महिषासुर से पीड़ित देवता • पाठ 2.1–2.8
पाठ 2.1
ॐ ह्रीं ऋषिरुवाच ॥ २.१॥
पाठ 2.2
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा ।
महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥ २.२॥
पाठ 2.3
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः ॥ २.३॥
पाठ 2.4
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ।
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥ २.४॥
पाठ 2.5
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥ २.५॥
पाठ 2.6
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।
अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति ॥ २.६॥
पाठ 2.7
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥ २.७॥
पाठ 2.8
एतद्वः कथितं सर्वममरारिविचेष्टितम् ।
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥ २.८॥
सरल हिन्दी भावार्थ: ऋषि कहते हैं—देवताओं और असुरों का दीर्घ युद्ध हुआ। महिषासुर ने देवसेना को हराकर इन्द्र का स्थान और अन्य देवताओं के अधिकार छीन लिए। स्वर्ग से निकाले गए देवता ब्रह्मा को साथ लेकर शिव और विष्णु के पास पहुँचे। उन्होंने अपना दुःख सुनाकर महिषासुर के वध का उपाय करने की प्रार्थना की।
देवतेज से देवी का प्राकट्य • पाठ 2.9–2.19
पाठ 2.9
इत्थं निशम्य देवानां वचांसि मधुसूदनः ।
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥ २.९॥
पाठ 2.10
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः ।
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥ २.१०॥
पाठ 2.11
अन्येषां चैव देवानां शक्रादीनां शरीरतः ।
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥ २.११॥
पाठ 2.12
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् ।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥ २.१२॥
पाठ 2.13
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् ।
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥ २.१३॥
पाठ 2.14
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् ।
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥ २.१४॥
पाठ 2.15
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् ।
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥ २.१५॥
पाठ 2.16
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा ।
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥ २.१६॥
पाठ 2.17
तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा ।
नयनत्रितयं जज्ञे तथा पावकतेजसा ॥ २.१७॥
पाठ 2.18
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च ।
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥ २.१८॥
पाठ 2.19
ततः समस्तदेवानां तेजोराशिसमुद्भवाम् ।
तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ।
ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च ॥ २.१९॥
सरल हिन्दी भावार्थ: देवताओं की बात सुनकर शिव और विष्णु क्रोधित हुए। उनके तथा ब्रह्मा, इन्द्र और अन्य देवताओं के शरीर से निकला तेज एकत्र होकर तीनों लोकों को प्रकाशित करने वाली देवी के रूप में प्रकट हुआ। विभिन्न देवताओं के तेज से उनके मुख, केश, भुजाएँ, चरण, नेत्र और अन्य अंग बने। देवी को देखकर पीड़ित देवता प्रसन्न हुए।
देवताओं द्वारा आयुध अर्पण • पाठ 2.20–2.24
पाठ 2.20
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ।
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ॥ २.२०॥
पाठ 2.21
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः ।
मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥ २.२१॥
पाठ 2.22
वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः ।
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ॥ २.२२॥
पाठ 2.23
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ ।
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥ २.२३॥
पाठ 2.24
समस्तरोमकूपेषु निजरश्मीन् दिवाकरः ।
कालश्च दत्तवान् खड्गं तस्यै चर्म च निर्मलम् ॥ २.२४॥
सरल हिन्दी भावार्थ: शिव ने त्रिशूल, विष्णु ने चक्र, वरुण ने शंख, अग्नि ने शक्ति, वायु ने धनुष और बाणपूर्ण तरकश दिए। इन्द्र ने वज्र और ऐरावत की घण्टा अर्पित की। यम ने दण्ड, वरुण ने पाश, प्रजापति ने अक्षमाला और ब्रह्मा ने कमण्डलु दिया। सूर्य ने अपनी किरणें तथा काल ने खड्ग और ढाल प्रदान की।
आभूषण और सिंहवाहन • पाठ 2.25–2.31
पाठ 2.25
क्षीरोदश्चामलं हारमजरे च तथाम्बरे ।
चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥ २.२५॥
पाठ 2.26
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ।
नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ॥ २.२६॥
पाठ 2.27
अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च ।
विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥ २.२७॥
पाठ 2.28
अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् ।
अम्लानपङ्कजां मालां शिरस्युरसि चापराम् ॥ २.२८॥
पाठ 2.29
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् ।
हिमवान् वाहनं सिंहं रत्नानि विविधानि च ॥ २.२९॥
पाठ 2.30
ददावशून्यं सुरया पानपात्रं धनाधिपः ।
शेषश्च सर्वनागेशो महामणिविभूषितम् ॥ २.३०॥
पाठ 2.31
नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् ।
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥ २.३१॥
सरल हिन्दी भावार्थ: क्षीरसागर ने हार, वस्त्र और अनेक आभूषण दिए। विश्वकर्मा ने परशु, अस्त्र और अभेद्य कवच दिया। समुद्र ने कमल और मालाएँ, हिमवान ने सिंहवाहन तथा रत्न, कुबेर ने पानपात्र और शेषनाग ने मणियों से सुसज्जित नागहार अर्पित किया। इस प्रकार देवताओं ने देवी को अपने आयुधों और विभूतियों से सम्मानित किया।
देवी का महानाद और युद्ध का आरम्भ • पाठ 2.32–2.39
पाठ 2.32
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः ।
तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ॥ २.३२॥
पाठ 2.33
अमायतातिमहता प्रतिशब्दो महानभूत् ।
चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे ॥ २.३३॥
पाठ 2.34
चचाल वसुधा चेलुः सकलाश्च महीधराः ।
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥ २.३४॥
पाठ 2.35
तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः ।
दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यममरारयः ॥ २.३५॥
पाठ 2.36
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ।
आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥ २.३६॥
पाठ 2.37
अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः ।
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ॥ २.३७॥
पाठ 2.38
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ।
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥ २.३८॥
पाठ 2.39
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् ।
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥ २.३९॥
सरल हिन्दी भावार्थ: देवी के अट्टहास और महानाद से आकाश भर गया, समुद्र और पर्वत काँप उठे। देवता जय-जयकार और ऋषि स्तुति करने लगे। महिषासुर अपनी विशाल सेना लेकर उस नाद की ओर दौड़ा। उसने तीनों लोकों में तेज फैलाने वाली, सहस्र भुजाओं से दिशाओं को घेरे खड़ी देवी को देखा और युद्ध आरम्भ हुआ।
असुरों की विशाल सेना का आक्रमण • पाठ 2.40–2.50
पाठ 2.40
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ।
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥ २.४०॥
पाठ 2.41
युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः ।
रथानामयुतैः षड्भिरुदग्राख्यो महासुरः ॥ २.४१॥
पाठ 2.42
अयुध्यतायुतानां च सहस्रेण महाहनुः ।
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ॥ २.४२॥
पाठ 2.43
अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे ।
गजवाजिसहस्रौघैरनेकैः परिवारितः ॥ २.४३॥
पाठ 2.44
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ।
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ॥ २.४४॥
पाठ 2.45
युयुधे संयुगे तत्र रथानां परिवारितः ।
अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥ २.४५॥
पाठ 2.46
युयुधुः संयुगे देव्या सह तत्र महासुराः ।
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ॥ २.४६॥
पाठ 2.47
हयानां च वृतो युद्धे तत्राभून्महिषासुरः ।
तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा ॥ २.४७॥
पाठ 2.48
युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः ।
केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥ २.४८॥
पाठ 2.49
देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः ।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥ २.४९॥
पाठ 2.50
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ।
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥ २.५०॥
सरल हिन्दी भावार्थ: चिक्षुर, चामर, उदग्र, महाहनु, असिलोमा, बाष्कल और बिडाल आदि असुर अनेक रथों, हाथियों, घोड़ों और योद्धाओं के साथ युद्ध करने लगे। वे तोमर, शक्ति, मूसल, तलवार, परशु और पाश आदि से प्रहार करते थे। देवी अपने आयुधों की वर्षा से उनके अस्त्र सहज ही काटती रहीं।
देवी के गणों का युद्ध • पाठ 2.51–2.59
पाठ 2.51
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी ।
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥ २.५१॥
पाठ 2.52
चचारासुरसैन्येषु वनेष्विव हुताशनः ।
निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका ॥ २.५२॥
पाठ 2.53
त एव सद्यः सम्भूता गणाः शतसहस्रशः ।
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥ २.५३॥
पाठ 2.54
नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः ।
अवादयन्त पटहान् गणाः शङ्खांस्तथापरे ॥ २.५४॥
पाठ 2.55
मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ।
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः ॥ २.५५॥
पाठ 2.56
खड्गादिभिश्च शतशो निजघान महासुरान् ।
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥ २.५६॥
पाठ 2.57
असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् ।
केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे ॥ २.५७॥
पाठ 2.58
विपोथिता निपातेन गदया भुवि शेरते ।
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥ २.५८॥
पाठ 2.59
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि ।
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे ॥ २.५९॥
सरल हिन्दी भावार्थ: देवी ने असुरों पर अस्त्र चलाए और उनका सिंह सेना के बीच अग्नि के समान घूमने लगा। युद्ध में देवी के निःश्वास से असंख्य गण उत्पन्न हुए। वे देवी की शक्ति से बल पाकर असुरों से लड़े और शंख, मृदंग तथा पटह बजाने लगे। देवी ने त्रिशूल, गदा, शक्ति और तलवार से शत्रुसेना को पराजित किया।
असुरसेना का विनाश • पाठ 2.60–2.69
पाठ 2.60
श्येनानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः ।
केषाञ्चिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ॥ २.६०॥
पाठ 2.61
शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ।
विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः ॥ २.६१॥
पाठ 2.62
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः ।
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥ २.६२॥
पाठ 2.63
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः ।
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ॥ २.६३॥
पाठ 2.64
कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः ।
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ॥ २.६४॥
पाठ 2.65
पातितै रथनागाश्वैरसुरैश्च वसुन्धरा ।
अगम्या साभवत्तत्र यत्राभूत् स महारणः ॥ २.६५॥
पाठ 2.66
शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः ।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥ २.६६॥
पाठ 2.67
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ।
निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् ॥ २.६७॥
पाठ 2.68
स च सिंहो महानादमुत्सृजन् धुतकेसरः ।
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥ २.६८॥
पाठ 2.69
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः ।
यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॥ २.६९॥
सरल हिन्दी भावार्थ: भीषण युद्ध में अनेक असुरों के अंग कटे, फिर भी कुछ कबन्ध आयुध लेकर लड़ते रहे। गिरे हुए रथों, हाथियों और घोड़ों से रणभूमि भर गई। देवी ने विशाल असुरसेना को वैसे नष्ट किया जैसे आग सूखे घास और लकड़ी के ढेर को जला देती है। देवी और उनके गणों का पराक्रम देखकर देवताओं ने आकाश से पुष्पवर्षा की।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः ॥ २॥
मध्यमचरित्र • महालक्ष्मी
अध्याय 3 • महिषासुर वध
परंपरागत पाठ-क्रमांक 1–44
। ध्यानम् ।
ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम् ।
ध्यान एवं विनियोग का भाव: ध्यान में उगते सहस्र सूर्यों जैसी कान्ति, लाल वस्त्र, त्रिनेत्र और चन्द्रमुकुट से सुशोभित कमलासना देवी का वन्दन है। उनके हाथों में जपमाला, विद्या, अभय और वर का भाव है।
चिक्षुर का वध • पाठ 3.1–3.10
पाठ 3.2
निहन्यमानं तत्सैन्यमवलोक्य महासुरः ।
सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् ॥ ३.२॥
पाठ 3.3
स देवीं शरवर्षेण ववर्ष समरेऽसुरः ।
यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः ॥ ३.३॥
पाठ 3.4
तस्य छित्वा ततो देवी लीलयैव शरोत्करान् ।
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ॥ ३.४॥
पाठ 3.5
चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् ।
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः ॥ ३.५॥
पाठ 3.6
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ॥ ३.६॥
पाठ 3.7
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि ।
आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥ ३.७॥
पाठ 3.8
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन ।
ततो जग्राह शूलं स कोपादरुणलोचनः ॥ ३.८॥
पाठ 3.9
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः ।
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥ ३.९॥
पाठ 3.10
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत ।
तेन तच्छतधा नीतं शूलं स च महासुरः ॥ ३.१०॥
सरल हिन्दी भावार्थ: अपनी सेना का विनाश देखकर सेनापति चिक्षुर देवी पर बाण बरसाने लगा। देवी ने उसके बाण, धनुष और ध्वज काट दिए तथा रथ और सारथि को नष्ट कर दिया। वह तलवार और ढाल लेकर दौड़ा, पर उसकी तलवार देवी की भुजा से लगकर टूट गई। अन्त में देवी के त्रिशूल से उसका शूल और वह स्वयं नष्ट हो गया।
चामर और अन्य सेनानायकों का अन्त • पाठ 3.11–3.20
पाठ 3.11
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ ।
आजगाम गजारूढश्चामरस्त्रिदशार्दनः ॥ ३.११॥
पाठ 3.12
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् ।
हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् ॥ ३.१२॥
पाठ 3.13
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः ।
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥ ३.१३॥
पाठ 3.14
ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः ।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥ ३.१४॥
पाठ 3.15
युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ।
युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ॥ ३.१५॥
पाठ 3.16
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ।
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥ ३.१६॥
पाठ 3.17
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः ।
दन्तमुष्टितलैश्चैव करालश्च निपातितः ॥ ३.१७॥
पाठ 3.18
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ।
बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥ ३.१८॥
पाठ 3.19
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् ।
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥ ३.१९॥
पाठ 3.20
बिडालस्यासिना कायात् पातयामास वै शिरः ।
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥ ३.२०॥
सरल हिन्दी भावार्थ: चामर हाथी पर चढ़कर आया। देवी ने उसकी शक्ति और शूल निष्फल कर दिए तथा सिंह ने उससे युद्ध करके उसे मार डाला। देवी ने उदग्र, कराल, उद्धत, बाष्कल, ताम्र, अन्धक, उग्रास्य, उग्रवीर्य, महाहनु, बिडाल, दुर्धर और दुर्मुख आदि असुरों का भी विविध आयुधों से संहार किया।
महिषासुर का उत्पात • पाठ 3.21–3.28
पाठ 3.21
एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः ।
माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥ ३.२१॥
पाठ 3.22
कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् ।
लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारितान् ॥ ३.२२॥
पाठ 3.23
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च ।
निःश्वासपवनेनान्यान्पातयामास भूतले ॥ ३.२३॥
पाठ 3.24
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः ।
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥ ३.२४॥
पाठ 3.25
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः ।
शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥ ३.२५॥
पाठ 3.26
वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत ।
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥ ३.२६॥
पाठ 3.27
धुतशृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः ।
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥ ३.२७॥
पाठ 3.28
इति क्रोधसमाध्मातमापतन्तं महासुरम् ।
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥ ३.२८॥
सरल हिन्दी भावार्थ: महिषासुर भैंसे के रूप में देवी के गणों को सींग, खुर, पूँछ, वेग और निःश्वास से पीड़ित करने लगा। वह पर्वत उछालता, पृथ्वी को विचलित करता और समुद्र को क्षुब्ध करता था। उसे देवी के सिंह की ओर दौड़ते और समस्त जगत को व्याकुल करते देखकर चण्डिका उसके वध के लिए क्रुद्ध हुईं।
महिषासुर के बदलते रूप • पाठ 3.29–3.33
पाठ 3.29
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥ ३.२९॥
पाठ 3.30
ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः ।
छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत ॥ ३.३०॥
पाठ 3.31
तत एवाशु पुरुषं देवी चिच्छेद सायकैः ।
तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः ॥ ३.३१॥
पाठ 3.32
करेण च महासिंहं तं चकर्ष जगर्ज च ।
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥ ३.३२॥
पाठ 3.33
ततो महासुरो भूयो माहिषं वपुरास्थितः ।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥ ३.३३॥
सरल हिन्दी भावार्थ: देवी ने महिषासुर को पाश में बाँधा। वह भैंसे का रूप छोड़कर सिंह बना, फिर तलवारधारी पुरुष और उसके बाद हाथी बन गया। देवी प्रत्येक रूप में उसका प्रतिकार करती रहीं। हाथी बनकर उसने सिंह को खींचा तो देवी ने उसकी सूँड़ काट दी। वह फिर भैंसा बनकर तीनों लोकों को व्याकुल करने लगा।
देवी की चेतावनी • पाठ 3.34–3.39
पाठ 3.34
ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।
पपौ पुनः पुनश्चैव जहासारुणलोचना ॥ ३.३४॥
पाठ 3.35
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः ।
विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् ॥ ३.३५॥
पाठ 3.36
सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः ।
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥ ३.३६॥
पाठ 3.37
देव्युवाच ॥ ३.३७॥
पाठ 3.38
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥ ३.३८॥
सरल हिन्दी भावार्थ: जगन्माता ने पान किया और हँसीं। महिषासुर गर्जना करता हुआ पर्वत फेंकने लगा, जिन्हें देवी ने बाणों से चूर कर दिया। देवी ने उससे कहा—मूढ़! जब तक मैं मधु पीती हूँ, क्षणभर गर्जना कर ले; मेरे द्वारा तेरे मारे जाने पर यहीं देवता गर्जना करेंगे।
महिषासुर का संहार • पाठ 3.40–3.44
पाठ 3.40
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् ।
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥ ३.४०॥
पाठ 3.41
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्तदा ।
अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ३.४१॥
पाठ 3.42
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः ।
तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥ ३.४२॥
पाठ 3.43
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।
प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥ ३.४३॥
पाठ 3.44
तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ३.४४॥
सरल हिन्दी भावार्थ: देवी ने उछलकर महिषासुर को दबाया, उसके गले पर पैर रखा और शूल से प्रहार किया। वह भैंसे के मुख से आधा बाहर निकल पाया और युद्ध करने लगा। देवी ने विशाल खड्ग से उसका सिर काट दिया। असुरसेना भयभीत होकर नष्ट हुई; देवताओं और ऋषियों ने स्तुति की तथा गन्धर्वों और अप्सराओं ने आनन्द मनाया।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरवधो नाम तृतीयोऽध्यायः ॥ ३॥
मध्यमचरित्र • महालक्ष्मी
अध्याय 4 • इन्द्रादि देवताओं की स्तुति
परंपरागत पाठ-क्रमांक 1–42
। ध्यानम् ।
ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद्दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥
ध्यान एवं विनियोग का भाव: ध्यान में मेघ के समान श्याम कान्ति वाली, चन्द्ररेखा से सुशोभित, शंख, चक्र, तलवार और त्रिशूल धारण करने वाली सिंहवाहिनी जया दुर्गा का स्मरण है।
जगत की आदिशक्ति को प्रणाम • पाठ 4.1–4.7
पाठ 4.2
शक्रादयः सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ ४.२॥
पाठ 4.3
देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ ४.३॥
पाठ 4.4
यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च न हि वक्तुमलं बलं च ।
सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ॥ ४.४॥
पाठ 4.5
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ ४.५॥
पाठ 4.6
किं वर्णयाम तव रूपमचिन्त्यमेतत्
किञ्चातिवीर्यमसुरक्षयकारि भूरि ।
किं चाहवेषु चरितानि तवाति यानि
सर्वेषु देव्यसुरदेवगणादिकेषु ॥ ४.६॥
पाठ 4.7
हेतुः समस्तजगतां त्रिगुणापि दोषै-
र्न ज्ञायसे हरिहरादिभिरप्यपारा ।
सर्वाश्रयाखिलमिदं जगदंशभूत-
मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ ४.७॥
सरल हिन्दी भावार्थ: महिषासुर के मारे जाने पर इन्द्र आदि देवता प्रसन्न होकर देवी की स्तुति करते हैं। वे कहते हैं—आप समस्त देवशक्तियों की मूर्ति और जगत में व्याप्त आदिशक्ति हैं। आपका प्रभाव ब्रह्मा, विष्णु और शिव भी पूरा नहीं कह सकते। आप पुण्यवानों के घर श्री, दुष्टों के यहाँ अलक्ष्मी, विवेकियों की बुद्धि, सज्जनों की श्रद्धा और मर्यादा की लज्जा हैं। आप ही समस्त जगत का आधार और परम प्रकृति हैं।
विद्या, वेद और भवसागर की नौका • पाठ 4.8–4.11
पाठ 4.8
यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि ।
स्वाहासि वै पितृगणस्य च तृप्तिहेतु-
रुच्चार्यसे त्वमत एव जनैः स्वधा च ॥ ४.८॥
पाठ 4.9
या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वं
अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः ।
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-
र्विद्यासि सा भगवती परमा हि देवि ॥ ४.९॥
पाठ 4.10
शब्दात्मिका सुविमलर्ग्यजुषां निधान-
मुद्गीथरम्यपदपाठवतां च साम्नाम् ।
देवि त्रयी भगवती भवभावनाय
वार्तासि सर्वजगतां परमार्तिहन्त्री ॥ ४.१०॥
पाठ 4.11
मेधासि देवि विदिताखिलशास्त्रसारा
दुर्गासि दुर्गभवसागरनौरसङ्गा ।
श्रीः कैटभारिहृदयैककृताधिवासा
गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥ ४.११॥
सरल हिन्दी भावार्थ: देवता कहते हैं—यज्ञ में देवताओं की तृप्ति कराने वाली स्वाहा तथा पितरों की तृप्ति कराने वाली स्वधा आप हैं। मोक्ष चाहने वाले संयमी मुनि जिस परम विद्या का अभ्यास करते हैं, वह भी आप ही हैं। वेदों की शब्दमयी शक्ति, जीविका का आधार, मेधा और संसारसागर से पार कराने वाली दुर्गा आप हैं। विष्णु की श्री तथा शिव की गौरी भी आप ही हैं।
कृपा से कल्याण • पाठ 4.12–4.17
पाठ 4.12
ईषत्सहासममलं परिपूर्णचन्द्र-
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।
अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण ॥ ४.१२॥
पाठ 4.13
दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-
मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।
प्राणान् मुमोच महिषस्तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तकदर्शनेन ॥ ४.१३॥
पाठ 4.14
देवि प्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि ।
विज्ञातमेतदधुनैव यदस्तमेत-
न्नीतं बलं सुविपुलं महिषासुरस्य ॥ ४.१४॥
पाठ 4.15
ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति बन्धुवर्गः ।
धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना ॥ ४.१५॥
पाठ 4.16
धर्म्याणि देवि सकलानि सदैव कर्मा-
ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।
स्वर्गं प्रयाति च ततो भवती प्रसादा-
ल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥ ४.१६॥
पाठ 4.17
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ॥ ४.१७॥
सरल हिन्दी भावार्थ: आपका निर्मल चन्द्रमा जैसा मुख देखकर भी महिषासुर ने प्रहार किया—यह आश्चर्य है। आपके क्रोध के सामने उसकी विशाल सेना नष्ट हो गई। आप प्रसन्न हों तो मनुष्य का कल्याण होता है। आपकी कृपा से जीवन में प्रतिष्ठा, धर्म, समृद्धि और शुभ कर्मों की प्रवृत्ति बढ़ती है।
पराक्रम में भी करुणा • पाठ 4.18–4.23
पाठ 4.18
एभिर्हतैर्जगदुपैति सुखं तथैते
कुर्वन्तु नाम नरकाय चिराय पापम् ।
सङ्ग्राममृत्युमधिगम्य दिवं प्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि ॥ ४.१८॥
पाठ 4.19
दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्वहितेषुसाध्वी ॥ ४.१९॥
पाठ 4.20
खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः
शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।
यन्नागता विलयमंशुमदिन्दुखण्ड-
योग्याननं तव विलोकयतां तदेतत् ॥ ४.२०॥
पाठ 4.21
दुर्वृत्तवृत्तशमनं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।
वीर्यं च हन्तृ हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥ ४.२१॥
पाठ 4.22
केनोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शत्रुभयकार्यतिहारि कुत्र ।
चित्ते कृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥ ४.२२॥
पाठ 4.23
त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।
नीता दिवं रिपुगणा भयमप्यपास्तम्
अस्माकमुन्मदसुरारिभवं नमस्ते ॥ ४.२३॥
सरल हिन्दी भावार्थ: देवता कहते हैं—आप शत्रुओं का संहार करके जगत को सुख देती हैं, पर आपके हृदय में उनके लिए भी कल्याण की भावना है। आयुधों से पवित्र होकर वे भी उच्च लोक प्राप्त करें—आपकी ऐसी करुणा मानी गई है। शत्रुओं को भय देने वाला पराक्रम, अनुपम रूप, भीतर कृपा और युद्ध में कठोरता का ऐसा समन्वय आप ही में है। आपने तीनों लोकों का भय दूर किया है।
सब दिशाओं में रक्षा की प्रार्थना • पाठ 4.24–4.30
पाठ 4.24
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥ ४.२४॥
पाठ 4.25
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ ४.२५॥
पाठ 4.26
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ॥ ४.२६॥
पाठ 4.27
खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ॥ ४.२७॥
पाठ 4.29
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ॥ ४.२९॥
पाठ 4.30
भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता ।
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ॥ ४.३०॥
सरल हिन्दी भावार्थ: देवता प्रार्थना करते हैं—हे अम्बिके! त्रिशूल, खड्ग, घण्टा और धनुष की टंकार से हमारी रक्षा करें। पूर्व, पश्चिम, उत्तर और दक्षिण में रक्षा करें। आपके सौम्य और उग्र सभी रूप तथा आपके हाथों के आयुध हमारी और पृथ्वी की रक्षा करें। देवताओं ने पुष्प, चन्दन और धूप से जगदम्बा का पूजन किया।
स्मरण करने पर सहायता का वर • पाठ 4.31–4.37
पाठ 4.31
देव्युवाच ॥ ४.३१॥
पाठ 4.32
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ॥ ४.३२॥
पाठ 4.33
देवा ऊचुः ॥ ४.३३॥
पाठ 4.34
भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ॥ ४.३४॥
पाठ 4.35
यदयं निहतः शत्रुरस्माकं महिषासुरः ।
यदि चापि वरो देयस्त्वयास्माकं महेश्वरि ॥ ४.३५॥
पाठ 4.36
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ।
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ॥ ४.३६॥
पाठ 4.37
तस्य वित्तर्द्धिविभवैर्धनदारादिसम्पदाम् ।
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥ ४.३७॥
सरल हिन्दी भावार्थ: देवी ने प्रसन्न होकर वर माँगने को कहा। देवताओं ने कहा—महिषासुर का संहार करके आपने हमारा कार्य पूरा कर दिया। यदि वर देना चाहती हैं तो स्मरण करने पर हमारी बड़ी विपत्तियाँ दूर करें। जो मनुष्य इन स्तुतियों से आपका स्तवन करे, उसके कल्याण और जीवन की शुभ समृद्धि के लिए भी प्रसन्न रहें।
उत्तरचरित्र की भूमिका • पाठ 4.38–4.42
पाठ 4.39
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ।
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥ ४.३९॥
पाठ 4.40
इत्येतत्कथितं भूप सम्भूता सा यथा पुरा ।
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ॥ ४.४०॥
पाठ 4.41
पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् ।
वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ॥ ४.४१॥
पाठ 4.42
रक्षणाय च लोकानां देवानामुपकारिणी ।
तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते ॥ ४.४२॥
सरल हिन्दी भावार्थ: देवी ने देवताओं की प्रार्थना स्वीकार की और अन्तर्धान हो गईं। ऋषि कहते हैं—यह देवताओं के तेज से जगत के हित के लिए उनके प्रकट होने का चरित्र था। अब गौरी के शरीर से प्रकट होकर शुम्भ और निशुम्भ का संहार करने वाला अगला चरित्र सुनो।
। ह्रीं ॐ ।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ॥ ४॥
उत्तरचरित्र • महासरस्वती
अध्याय 5 • देवी और दूत का संवाद
परंपरागत पाठ-क्रमांक 1–129
विनियोगः
अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः ।
श्रीमहासरस्वती देवता ।
अनुष्टुप् छन्दः । भीमा शक्तिः । भ्रामरी बीजम् ।
सूर्यस्तत्त्वम् ।
सामवेदः स्वरूपम् । श्रीमहासरस्वतीप्रीत्यर्थे
उत्तरचरित्रपाठे विनियोगः ।
। ध्यानम् ।
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥
ध्यान एवं विनियोग का भाव: उत्तरचरित्र का पाठ महासरस्वती की प्रसन्नता के लिए समर्पित है। ध्यान में गौरी से प्रकट, तीनों लोकों का आधार, शुम्भादि दैत्यों का नाश करने वाली तथा विविध आयुध धारण करने वाली महासरस्वती का स्मरण है।
शुम्भ-निशुम्भ से पीड़ित देवता • पाठ 5.1–5.8
पाठ 5.1
ॐ क्लीं ऋषिरुवाच ॥ ५.१॥
पाठ 5.2
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः ।
त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात् ॥ ५.२॥
पाठ 5.3
तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।
कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥ ५.३॥
पाठ 5.4
तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च ।
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥ ५.४॥
पाठ 5.5
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः ।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥ ५.५॥
पाठ 5.6
तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः ।
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥ ५.६॥
पाठ 5.7
इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् ।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥ ५.७॥
सरल हिन्दी भावार्थ: शुम्भ और निशुम्भ ने बल तथा अभिमान से इन्द्र का राज्य, यज्ञभाग और अन्य देवताओं के अधिकार छीन लिए। पराजित देवताओं को देवी का पूर्व वर याद आया कि संकट में स्मरण करने पर वे रक्षा करेंगी। वे हिमालय गए और विष्णुमायारूपिणी देवी की स्तुति करने लगे।
सौम्य और रौद्र देवी को प्रणाम • पाठ 5.9–5.13
पाठ 5.9
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ५.९॥
पाठ 5.10
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ ५.१०॥
पाठ 5.11
कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ।
नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥ ५.११॥
पाठ 5.12
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ ५.१२॥
पाठ 5.13
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ५.१३॥
सरल हिन्दी भावार्थ: देवता महादेवी, शिवा, प्रकृति, भद्रा, नित्या, गौरी और धात्री को नमस्कार करते हैं। वे कल्याण, वृद्धि, सिद्धि, दुर्गम संकट से पार कराने वाली शक्ति और जगत के आधार का वन्दन करते हैं। देवी अत्यन्त सौम्य भी हैं और अत्यन्त रौद्र भी; दोनों रूपों में उन्हें बारम्बार प्रणाम है।
सभी प्राणियों में विद्यमान शक्ति • पाठ 5.14–5.34
पाठ 5.14–16
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.१४-१६॥
पाठ 5.17–19
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.१७-१९॥
पाठ 5.20–22
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२०-२२॥
पाठ 5.23–25
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२३-२५॥
पाठ 5.26–28
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२६-२८॥
पाठ 5.29–31
या देवी सर्वभूतेषु छायारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.२९-३१॥
पाठ 5.32–34
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३२-३४॥
सरल हिन्दी भावार्थ: जो देवी सभी प्राणियों में विष्णुमाया, चेतना, बुद्धि, निद्रा, क्षुधा, छाया और शक्ति के रूप में स्थित हैं, उन्हें बारम्बार नमस्कार है। इस स्तुति में जीवन की प्रत्येक मूल शक्ति में देवी की व्यापक उपस्थिति का वन्दन किया गया है। प्रत्येक “नमस्तस्यै” आवृत्ति प्रणाम की उसी भावना को दृढ़ करती है।
तृष्णा से कान्ति तक देवी के रूप • पाठ 5.35–5.55
पाठ 5.35–37
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३५-३७॥
पाठ 5.38–40
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.३८-४०॥
पाठ 5.41–43
या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४१-४३॥
पाठ 5.44–46
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४४-४६॥
पाठ 5.47–49
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.४७-४९॥
पाठ 5.50–52
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५०-५२॥
पाठ 5.53–55
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५३-५५॥
सरल हिन्दी भावार्थ: जो देवी सभी प्राणियों में तृष्णा, क्षमा, जाति अर्थात् जन्मगत स्वरूप, लज्जा, शान्ति, श्रद्धा और कान्ति के रूप में स्थित हैं, उन्हें बारम्बार प्रणाम है। स्तुति इन अनुभवों और गुणों के आधार में स्थित चेतन शक्ति को नमन करती है।
लक्ष्मी, दया, मातृत्व और चिति • पाठ 5.56–5.80
पाठ 5.56–58
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५६-५८॥
पाठ 5.59–61
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.५९-६१॥
पाठ 5.62–64
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६२-६४॥
पाठ 5.65–67
या देवी सर्वभूतेषु दयारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६५-६७॥
पाठ 5.68–70
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.६८-७०॥
पाठ 5.71–73
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७१-७३॥
पाठ 5.74–76
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७४-७६॥
पाठ 5.77
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ ५.७७॥
पाठ 5.78–80
चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५.७८-८०॥
सरल हिन्दी भावार्थ: जो देवी सभी प्राणियों में लक्ष्मी, वृत्ति, स्मृति, दया, सन्तोष, मातृभाव और भ्रान्ति के रूप में स्थित हैं, उन्हें बारम्बार प्रणाम है। समस्त इन्द्रियों की अधिष्ठात्री और पूरे जगत में चितिरूप से व्याप्त देवी का वन्दन है। जीवन के पोषण और ज्ञान के साथ मोह की शक्ति भी उसी महाशक्ति के अधीन बताई गई है।
कौशिकी का आविर्भाव • पाठ 5.81–5.88
पाठ 5.81
स्तुता सुरैः पूर्वमभीष्टसंश्रया-
त्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरीश्वरी
शुभानि भद्राण्यभिहन्तु चापदः ॥ ५.८१॥
पाठ 5.82
या साम्प्रतं चोद्धतदैत्यतापितै-
रस्माभिरीशा च सुरैर्नमस्यते ।
या च स्मृता तत्क्षणमेव हन्ति नः
सर्वापदो भक्तिविनम्रमूर्तिभिः ॥ ५.८२॥
पाठ 5.84
एवं स्तवाभियुक्तानां देवानां तत्र पार्वती ।
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥ ५.८४॥
पाठ 5.85
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का ।
शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा ॥ ५.८५॥
पाठ 5.86
स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः ।
देवैः समेतैः समरे निशुम्भेन पराजितैः ॥ ५.८६॥
पाठ 5.87
शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका ।
कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥ ५.८७॥
पाठ 5.88
तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ।
कालिकेति समाख्याता हिमाचलकृताश्रया ॥ ५.८८॥
सरल हिन्दी भावार्थ: देवताओं ने पूर्व में पूजित और अभी स्मरण की गई देवी से शुभ तथा संकटों के नाश की प्रार्थना की। तभी गंगाजल में स्नान करने आईं पार्वती ने पूछा कि किसकी स्तुति हो रही है। उनके शरीरकोश से प्रकट शिवा ने कहा—देवता मेरी स्तुति कर रहे हैं। पार्वती के कोश से निकलने के कारण वे कौशिकी कहलायीं; शेष पार्वती कालिका नाम से प्रसिद्ध हुईं।
चण्ड-मुण्ड द्वारा शुम्भ को सूचना • पाठ 5.89–5.100
पाठ 5.89
ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।
ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ॥ ५.८९॥
पाठ 5.90
ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा ।
काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥ ५.९०॥
पाठ 5.91
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ।
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥ ५.९१॥
पाठ 5.92
स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा ।
सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥ ५.९२॥
पाठ 5.93
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो ।
त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥ ५.९३॥
पाठ 5.94
ऐरावतः समानीतो गजरत्नं पुरन्दरात् ।
पारिजाततरुश्चायं तथैवोच्चैःश्रवा हयः ॥ ५.९४॥
पाठ 5.95
विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे ।
रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् ॥ ५.९५॥
पाठ 5.96
निधिरेष महापद्मः समानीतो धनेश्वरात् ।
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् ॥ ५.९६॥
पाठ 5.97
छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति ।
तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ॥ ५.९७॥
पाठ 5.98
मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता ।
पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ॥ ५.९८॥
पाठ 5.99
निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः ।
वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥ ५.९९॥
पाठ 5.100
एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते ।
स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥ ५.१००॥
सरल हिन्दी भावार्थ: चण्ड और मुण्ड ने हिमालय को प्रकाशित करने वाली देवी को देखा और शुम्भ को उनके अनुपम सौन्दर्य का समाचार दिया। उन्होंने शुम्भ के अधिकार में आए ऐरावत, उच्चैःश्रवा, पारिजात, विमान, निधि, छत्र और अनेक रत्नों का वर्णन करके कहा कि ऐसी श्रेष्ठ देवी को भी वह अपने अधिकार में कर ले। यह असुरों के अधिकार-अभिमान का कथन है।
सुग्रीव दूत का संदेश • पाठ 5.101–5.114
पाठ 5.101
ऋषिरुवाच ॥ ५.१०१॥
पाठ 5.102
निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः ।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥ ५.१०२॥
पाठ 5.103
इति चेति च वक्तव्या सा गत्वा वचनान्मम ।
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥ ५.१०३॥
पाठ 5.104
स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ।
तां च देवीं ततः प्राह श्लक्ष्णं मधुरया गिरा ॥ ५.१०४॥
पाठ 5.105
दूत उवाच ॥ ५.१०५॥
पाठ 5.106
देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः ।
दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥ ५.१०६॥
पाठ 5.107
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु ।
निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् ॥ ५.१०७॥
पाठ 5.108
मम त्रैलोक्यमखिलं मम देवा वशानुगाः ।
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥ ५.१०८॥
पाठ 5.109
त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः ।
तथैव गजरत्नं च हृतं देवेन्द्रवाहनम् ॥ ५.१०९॥
पाठ 5.110
क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः ।
उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ॥ ५.११०॥
पाठ 5.111
यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च ।
रत्नभूतानि भूतानि तानि मय्येव शोभने ॥ ५.१११॥
पाठ 5.112
स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् ।
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् ॥ ५.११२॥
पाठ 5.113
मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् ।
भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः ॥ ५.११३॥
पाठ 5.114
परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् ।
एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥ ५.११४॥
सरल हिन्दी भावार्थ: शुम्भ ने सुग्रीव नामक दूत को देवी के पास भेजा। दूत ने कहा—शुम्भ तीनों लोकों का स्वामी है; देवता और सभी श्रेष्ठ रत्न उसके अधीन हैं। वह तुम्हें भी स्त्रीरत्न मानकर बुलाता है। तुम शुम्भ अथवा उसके भाई निशुम्भ को पति के रूप में स्वीकार करो; ऐसा करने से तुम्हें अतुल ऐश्वर्य मिलेगा।
देवी की स्वतंत्र प्रतिज्ञा • पाठ 5.115–5.121
पाठ 5.115
ऋषिरुवाच ॥ ५.११५॥
पाठ 5.116
इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ ।
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥ ५.११६॥
पाठ 5.117
देव्युवाच ॥ ५.११७॥
पाठ 5.118
सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित्त्वयोदितम् ।
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ॥ ५.११८॥
पाठ 5.119
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ।
श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥ ५.११९॥
पाठ 5.120
यो मां जयति सङ्ग्रामे यो मे दर्पं व्यपोहति ।
यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥ ५.१२०॥
पाठ 5.121
तदागच्छतु शुम्भोऽत्र निशुम्भो वा महाबलः ।
मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु ॥ ५.१२१॥
सरल हिन्दी भावार्थ: देवी ने गम्भीर मुस्कान के साथ उत्तर दिया—शुम्भ और निशुम्भ बलवान हैं, पर मेरी पूर्व प्रतिज्ञा है: जो मुझे युद्ध में जीते, मेरा अभिमान दूर करे और मेरे समान बलवान हो, वही मेरा पति होगा। इसलिए दोनों में से जो चाहे यहाँ आकर मुझे जीत ले और मेरा पाणिग्रहण करे।
दूत की धमकी और देवी का उत्तर • पाठ 5.122–5.129
पाठ 5.122
दूत उवाच ॥ ५.१२२॥
पाठ 5.123
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः ।
त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः ॥ ५.१२३॥
पाठ 5.124
अन्येषामपि दैत्यानां सर्वे देवा न वै युधि ।
तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका ॥ ५.१२४॥
पाठ 5.125
इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे ।
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥ ५.१२५॥
पाठ 5.126
सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः ।
केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥ ५.१२६॥
पाठ 5.127
देव्युवाच ॥ ५.१२७॥
पाठ 5.128
एवमेतद् बली शुम्भो निशुम्भश्चापितादृशः ।
किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥ ५.१२८॥
पाठ 5.129
स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः ।
तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु यत् ॥ ५.१२९॥
सरल हिन्दी भावार्थ: दूत ने अहंकार से कहा कि जब देवता भी शुम्भ-निशुम्भ के सामने नहीं ठहर सकते तो अकेली स्त्री क्या कर सकेगी; देवी को साथ चलने की धमकी दी। देवी ने शान्त भाव से अपनी प्रतिज्ञा दोहराई और कहा—तुम मेरा यही संदेश अपने स्वामी को सुना दो; फिर वह जैसा उचित समझे, करे।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
देव्या दूतसंवादो नाम पञ्चमोऽध्यायः ॥ ५॥
उत्तरचरित्र • महासरस्वती
अध्याय 6 • धूम्रलोचन वध
परंपरागत पाठ-क्रमांक 1–24
। ध्यानम् ।
ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरु रत्नावली-
भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम् ।
मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां
सर्वज्ञेश्वरभैरवाङ्गनिलयां पद्मावतीं चिन्तये ॥
ध्यान एवं विनियोग का भाव: ध्यान में नागराज पर आसन लगाए, नागों के फणों की रत्नमालाओं से प्रकाशित, सूर्य जैसी कान्ति वाली त्रिनेत्र पद्मावती देवी का स्मरण है। वे माला, कलश, कपाल और कमल धारण करती हैं तथा अर्धचन्द्र से सुशोभित हैं।
धूम्रलोचन को आदेश • पाठ 6.1–6.6
पाठ 6.2
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ।
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥ ६.२॥
पाठ 6.3
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।
सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥ ६.३॥
पाठ 6.4
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः ।
तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् ॥ ६.४॥
पाठ 6.5
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः ।
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥ ६.५॥
सरल हिन्दी भावार्थ: दूत ने लौटकर देवी का उत्तर सुनाया। शुम्भ क्रोधित हुआ और धूम्रलोचन को सेना लेकर देवी को बलपूर्वक लाने का आदेश दिया। उसने यह भी कहा कि देवी की सहायता करने वाला कोई देवता, यक्ष या गन्धर्व सामने आए तो उसे भी मार दिया जाए।
देवी के हुंकार से असुर का अन्त • पाठ 6.7–6.13
पाठ 6.7
तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः ।
वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥ ६.७॥
पाठ 6.8
स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।
जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ॥ ६.८॥
पाठ 6.9
न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ।
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥ ६.९॥
पाठ 6.10
देव्युवाच ॥ ६.१०॥
पाठ 6.11
दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः ।
बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥ ६.११॥
पाठ 6.13
इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ।
हुङ्कारेणैव तं भस्म सा चकाराम्बिका तदा ॥ ६.१३॥
सरल हिन्दी भावार्थ: धूम्रलोचन साठ हजार असुरों की सेना लेकर हिमालय पहुँचा। उसने देवी को शुम्भ के पास चलने को कहा और बलपूर्वक ले जाने की धमकी दी। देवी के उत्तर के बाद वह उन पर दौड़ा। अम्बिका ने केवल हुंकार से उसे भस्म कर दिया।
सिंह द्वारा सेना का विनाश • पाठ 6.14–6.19
पाठ 6.14
अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ।
ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ॥ ६.१४॥
पाठ 6.15
ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् ।
पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ॥ ६.१५॥
पाठ 6.16
कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् ।
आक्रान्त्या चाधरेणान्यान् जघान स महासुरान् ॥ ६.१६॥
पाठ 6.17
केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी ।
तथा तलप्रहारेण शिरांसि कृतवान्पृथक् ॥ ६.१७॥
पाठ 6.18
विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे ।
पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ॥ ६.१८॥
पाठ 6.19
क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना ।
तेन केसरिणा देव्या वाहनेनातिकोपिना ॥ ६.१९॥
सरल हिन्दी भावार्थ: धूम्रलोचन के मारे जाने पर क्रुद्ध सेना ने आयुधों से आक्रमण किया। देवी का सिंह गर्जना करके असुरों के बीच कूद पड़ा। उसने पंजों, मुख, नखों और प्रहारों से सेना को नष्ट कर दिया। थोड़े ही समय में उस विशाल सैन्य का अन्त हो गया।
चण्ड-मुण्ड को भेजना • पाठ 6.20–6.24
पाठ 6.20
श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।
बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ॥ ६.२०॥
पाठ 6.21
चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः ।
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥ ६.२१॥
पाठ 6.22
हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ ।
तत्र गच्छत गत्वा च सा समानीयतां लघु ॥ ६.२२॥
पाठ 6.23
केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि ।
तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ॥ ६.२३॥
पाठ 6.24
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।
शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥ ६.२४॥
सरल हिन्दी भावार्थ: धूम्रलोचन और उसकी सेना के विनाश का समाचार सुनकर शुम्भ अत्यन्त क्रोधित हुआ। उसने चण्ड और मुण्ड को विशाल सेना के साथ भेजा। उसका आदेश था कि देवी को बाँधकर लाया जाए और प्रतिरोध होने पर देवी तथा उनके सिंह पर समस्त आयुधों से आक्रमण किया जाए।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्ठोऽध्यायः ॥ ६॥
उत्तरचरित्र • महासरस्वती
अध्याय 7 • चण्ड-मुण्ड वध
परंपरागत पाठ-क्रमांक 1–27
। ध्यानम् ।
ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकांघ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कल्हाराबद्धमालां नियमितविलसच्चोलिकां रत्नवस्त्रां
मातङ्गी शङ्कपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥
ध्यान एवं विनियोग का भाव: ध्यान में रत्नपीठ पर विराजमान, श्यामवर्णा, चन्द्रकलाधारिणी, वीणा बजाती और शुक की वाणी सुनती मातंगी देवी का स्मरण है।
अम्बिका के ललाट से काली का प्राकट्य • पाठ 7.1–7.8
पाठ 7.2
आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः ।
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ॥ ७.२॥
पाठ 7.3
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।
सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ॥ ७.३॥
पाठ 7.4
ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः ।
आकृष्टचापासिधरास्तथान्ये तत्समीपगाः ॥ ७.४॥
पाठ 7.5
ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति ।
कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥ ७.५॥
पाठ 7.6
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।
काली करालवदना विनिष्क्रान्तासिपाशिनी ॥ ७.६॥
पाठ 7.7
विचित्रखट्वाङ्गधरा नरमालाविभूषणा ।
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥ ७.७॥
पाठ 7.8
अतिविस्तारवदना जिह्वाललनभीषणा ।
निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥ ७.८॥
सरल हिन्दी भावार्थ: चण्ड-मुण्ड के नेतृत्व में सेना आयुध लेकर पहुँची। स्वर्णमय पर्वतशिखर पर सिंह के ऊपर बैठी मुस्कराती देवी को देखकर असुर उन्हें पकड़ने बढ़े। देवी क्रुद्ध हुईं और उनके ललाट से करालमुखी काली प्रकट हुईं। वे तलवार, पाश और खट्वांग धारण किए, उग्र नाद करती हुई दिखाई दीं।
काली का भीषण युद्ध • पाठ 7.9–7.15
पाठ 7.9
सा वेगेनाभिपतिता घातयन्ती महासुरान् ।
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ॥ ७.९॥
पाठ 7.10
पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान् ।
समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥ ७.१०॥
पाठ 7.11
तथैव योधं तुरगै रथं सारथिना सह ।
निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् ॥ ७.११॥
पाठ 7.12
एकं जग्राह केशेषु ग्रीवायामथ चापरम् ।
पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् ॥ ७.१२॥
पाठ 7.13
तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः ।
मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥ ७.१३॥
पाठ 7.14
बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् ।
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तदा ॥ ७.१४॥
पाठ 7.15
असिना निहताः केचित्केचित्खट्वाङ्गताडिताः ।
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ॥ ७.१५॥
सरल हिन्दी भावार्थ: काली वेग से सेना के भीतर पहुँचीं और हाथियों, घोड़ों, रथों तथा योद्धाओं का संहार करने लगीं। असुरों द्वारा छोड़े हुए आयुध भी उनके सामने निष्फल हो गए। उन्होंने तलवार, खट्वांग और अन्य प्रहारों से बलवान असुरों की सेना को नष्ट कर दिया।
चण्ड और मुण्ड का वध • पाठ 7.16–7.22
पाठ 7.16
क्षणेन तद्बलं सर्वमसुराणां निपातितम् ।
दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् ॥ ७.१६॥
पाठ 7.17
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः ।
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ॥ ७.१७॥
पाठ 7.18
तानि चक्राण्यनेकानि विशमानानि तन्मुखम् ।
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ॥ ७.१८॥
पाठ 7.19
ततो जहासातिरुषा भीमं भैरवनादिनी ।
काली करालवदना दुर्दर्शदशनोज्ज्वला ॥ ७.१९॥
पाठ 7.20
उत्थाय च महासिंहं देवी चण्डमधावत ।
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥ ७.२०॥
पाठ 7.21
अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् ।
तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा ॥ ७.२१॥
पाठ 7.22
हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् ।
मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् ॥ ७.२२॥
सरल हिन्दी भावार्थ: चण्ड ने बाणों की वर्षा की और मुण्ड ने हजारों चक्र चलाए। काली ने उग्र अट्टहास किया और चण्ड को पकड़कर उसका सिर काट दिया। मुण्ड भी आक्रमण करने दौड़ा, पर देवी के खड्गप्रहार से मारा गया। दोनों सेनानायकों के मारे जाने पर बची हुई सेना भय से भाग गई।
चामुण्डा नाम की प्राप्ति • पाठ 7.23–7.27
पाठ 7.23
शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च ।
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥ ७.२३॥
पाठ 7.24
मया तवात्रोपहृतौ चण्डमुण्डौ महापशू ।
युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ॥ ७.२४॥
पाठ 7.26
तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ ।
उवाच कालीं कल्याणी ललितं चण्डिका वचः ॥ ७.२६॥
पाठ 7.27
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता ।
चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥ ७.२७॥
सरल हिन्दी भावार्थ: काली चण्ड और मुण्ड को लेकर चण्डिका के पास पहुँचीं और कहा—इन दोनों को मैंने आपके सामने अर्पित किया है; अब आप शुम्भ और निशुम्भ का संहार करेंगी। चण्डिका ने प्रसन्न होकर कहा—चण्ड और मुण्ड को लाने के कारण तुम संसार में चामुण्डा नाम से प्रसिद्ध होगी।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
चण्डमुण्डवधो नाम सप्तमोऽध्यायः ॥ ७॥
उत्तरचरित्र • महासरस्वती
अध्याय 8 • रक्तबीज वध
परंपरागत पाठ-क्रमांक 1–63
। ध्यानम् ।
ॐ अरुणां करुणातरङ्गिताक्षीं
धृतपाशाङ्कुशबाणाचापहस्ताम् ।
अणिमादिभिरावृतां मयूखै-
रहमित्येव विभावये भवानीम् ॥
ध्यान एवं विनियोग का भाव: ध्यान में अरुणवर्णा, करुणामयी दृष्टि वाली और पाश, अंकुश, बाण तथा धनुष धारण करने वाली भवानी का स्मरण है।
शुम्भ की समस्त सेना का आक्रमण • पाठ 8.1–8.11
पाठ 8.2
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ ८.२॥
पाठ 8.3
ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ।
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥ ८.३॥
पाठ 8.4
अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः ।
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥ ८.४॥
पाठ 8.5
कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥ ८.५॥
पाठ 8.6
कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः ।
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥ ८.६॥
पाठ 8.7
इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः ।
निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः ॥ ८.७॥
पाठ 8.8
आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥ ८.८॥
पाठ 8.9
ततः सिंहो महानादमतीव कृतवान्नृप ।
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ॥ ८.९॥
पाठ 8.10
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ।
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥ ८.१०॥
पाठ 8.11
तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् ।
देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥ ८.११॥
सरल हिन्दी भावार्थ: चण्ड-मुण्ड और बड़ी सेना के विनाश से क्रुद्ध शुम्भ ने अनेक असुरकुलों की सेनाओं को युद्ध के लिए बुलाया। वह विशाल बल के साथ निकला। चण्डिका की धनुषटंकार, सिंह की गर्जना, घण्टा और काली के नाद से दिशाएँ भर गईं। असुरों ने चारों ओर से देवी और उनके साथियों को घेर लिया।
मातृशक्तियों का आविर्भाव • पाठ 8.12–8.21
पाठ 8.12
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।
भवायामरसिंहानामतिवीर्यबलान्विताः ॥ ८.१२॥
पाठ 8.13
ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।
शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥ ८.१३॥
पाठ 8.14
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।
तद्वदेव हि तच्छक्तिरसुरान्योद्धुमाययौ ॥ ८.१४॥
पाठ 8.15
हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ।
आयाता ब्रह्मणः शक्तिर्ब्रह्माणीत्यभिधीयते ॥ ८.१५॥
पाठ 8.16
माहेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ॥ ८.१६॥
पाठ 8.17
कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥ ८.१७॥
पाठ 8.18
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ ॥ ८.१८॥
पाठ 8.19
यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥ ८.१९॥
पाठ 8.20
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥ ८.२०॥
पाठ 8.21
वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता ।
प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥ ८.२१॥
सरल हिन्दी भावार्थ: देवताओं के हित और असुरों के विनाश के लिए ब्रह्मा, शिव, कार्तिकेय, विष्णु और इन्द्र आदि की शक्तियाँ प्रकट हुईं। वे उन्हीं देवताओं के समान वाहन, आयुध और रूप धारण किए थीं। ब्रह्माणी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, नारसिंही और ऐन्द्री चण्डिका के पास युद्ध के लिए पहुँचीं।
शिवदूती का संदेश • पाठ 8.22–8.28
पाठ 8.22
ततः परिवृतस्ताभिरीशानो देवशक्तिभिः ।
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम् ॥ ८.२२॥
पाठ 8.23
ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा ।
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥ ८.२३॥
पाठ 8.24
सा चाह धूम्रजटिलमीशानमपराजिता ।
दूत त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥ ८.२४॥
पाठ 8.25
ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥ ८.२५॥
पाठ 8.26
त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ ८.२६॥
पाठ 8.27
बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः ।
तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥ ८.२७॥
पाठ 8.28
यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता ॥ ८.२८॥
सरल हिन्दी भावार्थ: देवी से एक अत्यन्त उग्र शक्ति प्रकट हुई। उन्होंने शिव को शुम्भ-निशुम्भ के पास संदेश लेकर भेजा—इन्द्र को तीनों लोकों का राज्य और देवताओं को यज्ञभाग लौटाओ; जीवन चाहते हो तो पाताल चले जाओ। यदि बल के अभिमान में युद्ध चाहते हो, तो सामने आओ। स्वयं शिव को दूत बनाने के कारण देवी शिवदूती कहलायीं।
मातृगणों का पराक्रम • पाठ 8.29–8.39
पाठ 8.29
तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥ ८.२९॥
पाठ 8.30
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।
ववर्षुरुद्धतामर्षास्तां देवीममरारयः ॥ ८.३०॥
पाठ 8.31
सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् ।
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥ ८.३१॥
पाठ 8.32
तस्याग्रतस्तथा काली शूलपातविदारितान् ।
खट्वाङ्गपोथितांश्चारीन्कुर्वती व्यचरत्तदा ॥ ८.३२॥
पाठ 8.33
कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ।
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥ ८.३३॥
पाठ 8.34
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।
दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना ॥ ८.३४॥
पाठ 8.35
ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः ।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥ ८.३५॥
पाठ 8.36
तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः ।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥ ८.३६॥
पाठ 8.37
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।
नारसिंही चचाराजौ नादापूर्णदिगम्बरा ॥ ८.३७॥
पाठ 8.38
चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥ ८.३८॥
पाठ 8.39
इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् ।
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥ ८.३९॥
सरल हिन्दी भावार्थ: संदेश सुनकर असुर क्रोधित होकर देवी पर अस्त्र बरसाने लगे। देवी ने उन्हें काट दिया। काली, ब्रह्माणी, माहेश्वरी, कौमारी, वैष्णवी, ऐन्द्री, वाराही, नारसिंही और शिवदूती ने अपने-अपने आयुधों और शक्तियों से असुरों को पराजित किया। मातृगणों से पीड़ित सेना भागने लगी।
रक्तबीज की अद्भुत शक्ति • पाठ 8.40–8.48
पाठ 8.40
पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥ ८.४०॥
पाठ 8.41
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥ ८.४१॥
पाठ 8.42
युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ।
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥ ८.४२॥
पाठ 8.43
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।
समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥ ८.४३॥
पाठ 8.44
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।
तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ॥ ८.४४॥
पाठ 8.45
ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ॥ ८.४५॥
पाठ 8.46
पुनश्च वज्रपातेन क्षतमस्य शिरो यदा ।
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥ ८.४६॥
पाठ 8.47
वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ॥ ८.४७॥
पाठ 8.48
वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः ।
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥ ८.४८॥
सरल हिन्दी भावार्थ: सेना को भागते देखकर रक्तबीज युद्ध में आया। उसके शरीर से पृथ्वी पर गिरने वाली प्रत्येक रक्तबूँद से उसी के समान बलवान असुर उत्पन्न हो जाता था। ऐन्द्री और वैष्णवी आदि के प्रहारों से रक्त गिरा तो वैसे ही असंख्य योद्धा उत्पन्न हो गए। उनसे जगत भरने लगा।
रक्त की बूँद भूमि पर न गिरने देना • पाठ 8.49–8.56
पाठ 8.49
शक्त्या जघान कौमारी वाराही च तथासिना ।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥ ८.४९॥
पाठ 8.50
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥ ८.५०॥
पाठ 8.51
तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।
पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥ ८.५१॥
पाठ 8.52
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥ ८.५२॥
पाठ 8.53
तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरम् ।
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥ ८.५३॥
पाठ 8.54
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ।
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥ ८.५४॥
पाठ 8.55
भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् ।
एवमेष क्षयं दैत्यः क्षेणरक्तो गमिष्यति ॥ ८.५५॥
पाठ 8.56
भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥ ८.५६॥
सरल हिन्दी भावार्थ: अन्य मातृशक्तियों के प्रहारों से भी रक्तबीज के रक्त से नए असुर बढ़ते गए और देवता भयभीत हुए। चण्डिका ने चामुण्डा से कहा—मुख फैलाकर मेरे प्रहारों से निकला रक्त भूमि पर गिरने से पहले ग्रहण करो और उससे उत्पन्न असुरों का भी संहार करो। इस प्रकार रक्त घटने पर यह असुर नष्ट होगा और नए असुर पैदा नहीं होंगे।
रक्तबीज का अन्त • पाठ 8.57–8.63
पाठ 8.57
मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।
ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ॥ ८.५७॥
पाठ 8.58
न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥ ८.५८॥
पाठ 8.59
यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ॥ ८.५९॥
पाठ 8.60
तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ।
देवी शूलेन वज्रेण बाणैरसिभिरृष्टिभिः ॥ ८.६०॥
पाठ 8.61
जघान रक्तबीजं तं चामुण्डापीतशोणितम् ।
स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः ॥ ८.६१॥
पाठ 8.62
नीरक्तश्च महीपाल रक्तबीजो महासुरः ।
ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ॥ ८.६२॥
पाठ 8.63
तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः ॥ ८.६३॥
सरल हिन्दी भावार्थ: काली रक्तबीज का रक्त ग्रहण करती रहीं और उत्पन्न असुरों को नष्ट करती रहीं। उसके गदाप्रहार से चण्डिका को पीड़ा नहीं हुई। देवी ने शूल, वज्र, बाण और खड्ग आदि से प्रहार किए। रक्तहीन हुआ रक्तबीज पृथ्वी पर गिरकर मारा गया। देवता प्रसन्न हुए और मातृगणों ने विजय का उत्सव मनाया।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
रक्तबीजवधो नामाष्टमोऽध्यायः ॥ ८॥
उत्तरचरित्र • महासरस्वती
अध्याय 9 • निशुम्भ वध
परंपरागत पाठ-क्रमांक 1–41
। ध्यानम् ।
ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां
पाशाङ्कुशौ च वरदां निजबाहुदण्डैः ।
बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-
मर्धांबिकेशमनिशं वपुराश्रयामि ॥
ध्यान एवं विनियोग का भाव: ध्यान में बन्धूक और स्वर्ण जैसी कान्ति वाले, माला, पाश, अंकुश तथा वरमुद्रा धारण करने वाले चन्द्रभूषित त्रिनेत्र अर्धाम्बिकेश स्वरूप का आश्रय लिया गया है।
शुम्भ-निशुम्भ का युद्ध • पाठ 9.1–9.10
पाठ 9.2
विचित्रमिदमाख्यातं भगवन् भवता मम ।
देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥ ९.२॥
पाठ 9.3
भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ।
चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ॥ ९.३॥
पाठ 9.5
चकार कोपमतुलं रक्तबीजे निपातिते ।
शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ॥ ९.५॥
पाठ 9.6
हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् ।
अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया ॥ ९.६॥
पाठ 9.7
तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः ।
सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥ ९.७॥
पाठ 9.8
आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः ।
निहन्तुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः ॥ ९.८॥
पाठ 9.9
ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः ।
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥ ९.९॥
पाठ 9.10
चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः ।
ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ॥ ९.१०॥
सरल हिन्दी भावार्थ: राजा ने रक्तबीज के बाद की कथा पूछी। ऋषि कहते हैं—शुम्भ और निशुम्भ अत्यन्त क्रोधित हुए। निशुम्भ मुख्य सेना के साथ देवी पर दौड़ा और शुम्भ भी अपनी सेना लेकर आया। दोनों ने बाणों की वर्षा की। चण्डिका ने उनके बाण काटकर अपने आयुधों से उन्हें आहत किया।
निशुम्भ के आयुधों का खण्डन • पाठ 9.11–9.16
पाठ 9.11
निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् ।
अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् ॥ ९.११॥
पाठ 9.12
ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् ।
निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् ॥ ९.१२॥
पाठ 9.13
छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः ।
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् ॥ ९.१३॥
पाठ 9.14
कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः ।
आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् ॥ ९.१४॥
पाठ 9.15
आविद्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति ।
सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता ॥ ९.१५॥
पाठ 9.16
ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् ।
आहत्य देवी बाणौघैरपातयत भूतले ॥ ९.१६॥
सरल हिन्दी भावार्थ: निशुम्भ ने देवी के सिंह पर तलवार से प्रहार किया। देवी ने उसकी तलवार और ढाल काट दी। उसने शक्ति, शूल, गदा और परशु से आक्रमण किया, पर देवी ने प्रत्येक आयुध तोड़ दिया। अन्त में बाणों से आहत होकर वह पृथ्वी पर गिर पड़ा।
शुम्भ का प्रहार निष्फल • पाठ 9.17–9.28
पाठ 9.17
तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे ।
भ्रातर्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम् ॥ ९.१७॥
पाठ 9.18
स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः ।
भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः ॥ ९.१८॥
पाठ 9.19
तमायान्तं समालोक्य देवी शङ्खमवादयत् ।
ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम् ॥ ९.१९॥
पाठ 9.20
पूरयामास ककुभो निजघण्टास्वनेन च ।
समस्तदैत्यसैन्यानां तेजोवधविधायिना ॥ ९.२०॥
पाठ 9.21
ततः सिंहो महानादैस्त्याजितेभमहामदैः ।
पूरयामास गगनं गां तथैव दिशो दश ॥ ९.२१॥
पाठ 9.22
ततः काली समुत्पत्य गगनं क्ष्मामताडयत् ।
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः ॥ ९.२२॥
पाठ 9.23
अट्टाट्टहासमशिवं शिवदूती चकार ह ।
वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ ॥ ९.२३॥
पाठ 9.24
दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा ।
तदा जयेत्यभिहितं देवैराकाशसंस्थितैः ॥ ९.२४॥
पाठ 9.25
शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा ।
आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया ॥ ९.२५॥
पाठ 9.26
सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् ।
निर्घातनिःस्वनो घोरो जितवानवनीपते ॥ ९.२६॥
पाठ 9.27
शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान् ।
चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः ॥ ९.२७॥
पाठ 9.28
ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् ।
स तदाभिहतो भूमौ मूर्च्छितो निपपात ह ॥ ९.२८॥
सरल हिन्दी भावार्थ: भाई के गिरने पर शुम्भ आठ भुजाओं में आयुध लेकर आगे बढ़ा। देवी ने शंख, धनुष और घण्टा बजाई; सिंह, काली और शिवदूती ने भी नाद किया। शुम्भ और देवी ने एक-दूसरे के बाण काटे। देवी के शूलप्रहार से शुम्भ मूर्छित होकर पृथ्वी पर गिर गया।
निशुम्भ का वध • पाठ 9.29–9.36
पाठ 9.29
ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः ।
आजघान शरैर्देवीं कालीं केसरिणं तथा ॥ ९.२९॥
पाठ 9.30
पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः ।
चक्रायुधेन दितिजश्छादयामास चण्डिकाम् ॥ ९.३०॥
पाठ 9.31
ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी ।
चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान् ॥ ९.३१॥
पाठ 9.32
ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् ।
अभ्यधावत वै हन्तुं दैत्यसैन्यसमावृतः ॥ ९.३२॥
पाठ 9.33
तस्यापतत एवाशु गदां चिच्छेद चण्डिका ।
खड्गेन शितधारेण स च शूलं समाददे ॥ ९.३३॥
पाठ 9.34
शूलहस्तं समायान्तं निशुम्भममरार्दनम् ।
हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका ॥ ९.३४॥
पाठ 9.35
भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः ।
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् ॥ ९.३५॥
पाठ 9.36
तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः ।
शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि ॥ ९.३६॥
सरल हिन्दी भावार्थ: निशुम्भ चेतना पाकर फिर युद्ध करने लगा और अनेक भुजाएँ प्रकट करके चक्र चलाए। देवी ने उसके चक्र, बाण और गदा काट दिए। जब वह शूल लेकर दौड़ा तो चण्डिका ने उसके हृदय में शूल मारा। उसके हृदय से एक अन्य बलवान पुरुष निकला; देवी ने उसका भी सिर काट दिया।
शेष असुरसेना का संहार • पाठ 9.37–9.41
पाठ 9.37
ततः सिंहश्चखादोग्रदंष्ट्राक्षुण्णशिरोधरान् ।
असुरांस्तांस्तथा काली शिवदूती तथापरान् ॥ ९.३७॥
पाठ 9.38
कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः ।
ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः ॥ ९.३८॥
पाठ 9.39
माहेश्वरीत्रिशूलेन भिन्नाः पेतुस्तथापरे ।
वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि ॥ ९.३९॥
पाठ 9.40
खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः ।
वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे ॥ ९.४०॥
पाठ 9.41
केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् ।
भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः ॥ ९.४१॥
सरल हिन्दी भावार्थ: देवी का सिंह, काली और शिवदूती शेष असुरों का संहार करने लगे। कौमारी की शक्ति, ब्रह्माणी के मन्त्रपूत जल, माहेश्वरी के त्रिशूल, वाराही के प्रहार, वैष्णवी के चक्र और ऐन्द्री के वज्र से अनेक असुर मारे गए। कुछ भाग गए और कुछ मातृशक्तियों द्वारा नष्ट हुए।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
निशुम्भवधो नाम नवमोऽध्यायः ॥ ९॥
उत्तरचरित्र • महासरस्वती
अध्याय 10 • शुम्भ वध
परंपरागत पाठ-क्रमांक 1–32
। ध्यानम् ।
ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-
नेत्रां धनुश्शरयुताङ्कुशपाशशूलम् ।
रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां
कामेश्वरीं हृदि भजामि धृतेन्दुलेखाम् ॥
ध्यान एवं विनियोग का भाव: ध्यान में तप्त सुवर्ण की कान्ति, सूर्य-चन्द्र-अग्नि समान नेत्र और धनुष, बाण, अंकुश, पाश तथा शूल धारण करने वाली शिवशक्तिरूपिणी कामेश्वरी का भजन है।
एक ही परम शक्ति की घोषणा • पाठ 10.1–10.8
पाठ 10.1
ॐ ऋषिरुवाच ॥ १०.१॥
पाठ 10.2
निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् ।
हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ॥ १०.२॥
पाठ 10.3
बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह ।
अन्यासां बलमाश्रित्य युद्ध्यसे चातिमानिनी ॥ १०.३॥
पाठ 10.4
देव्युवाच ॥ १०.४॥
पाठ 10.5
एकैवाहं जगत्यत्र द्वितीया का ममापरा ।
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥ १०.५॥
पाठ 10.6
ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् ।
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥ १०.६॥
पाठ 10.7
देव्युवाच ॥ १०.७॥
पाठ 10.8
अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता ।
तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥ १०.८॥
सरल हिन्दी भावार्थ: निशुम्भ के मारे जाने पर शुम्भ ने देवी को ताना दिया कि वे दूसरी शक्तियों के सहारे युद्ध कर रही हैं। देवी ने कहा—इस जगत में मैं अकेली हूँ, मेरे अतिरिक्त दूसरी कौन है? ये मेरी ही विभूतियाँ हैं। तब ब्रह्माणी आदि सभी शक्तियाँ देवी में लीन हो गईं। अम्बिका अकेली खड़ी होकर शुम्भ को युद्ध में स्थिर रहने को कहती हैं।
शुम्भ के अस्त्रों का विनाश • पाठ 10.9–10.17
पाठ 10.10
ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः ।
पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥ १०.१०॥
पाठ 10.11
शरवर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः ।
तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् ॥ १०.११॥
पाठ 10.12
दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका ।
बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥ १०.१२॥
पाठ 10.13
मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी ।
बभञ्ज लीलयैवोग्रहुङ्कारोच्चारणादिभिः ॥ १०.१३॥
पाठ 10.14
ततः शरशतैर्देवीमाच्छादयत सोऽसुरः ।
सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ॥ १०.१४॥
पाठ 10.15
छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ।
चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥ १०.१५॥
पाठ 10.16
ततः खड्गमुपादाय शतचन्द्रं च भानुमत् ।
अभ्यधा वत तां देवीं दैत्यानामधिपेश्वरः ॥ १०.१६॥
पाठ 10.17
तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका ।
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् ।
अश्वांश्च पातयामास रथं सारथिना सह ॥ १०.१७॥
सरल हिन्दी भावार्थ: देवी और शुम्भ का भीषण युद्ध हुआ। दोनों ने अनेक दिव्य अस्त्र और बाण चलाए। देवी ने हुंकार आदि से उसके अस्त्र निष्फल किए। उन्होंने उसका धनुष, शक्ति, तलवार और ढाल काट दी तथा घोड़े, रथ और सारथि को नष्ट कर दिया।
धरती और आकाश में युद्ध • पाठ 10.18–10.24
पाठ 10.18
हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः ।
जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः ॥ १०.१८॥
पाठ 10.19
चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः ।
तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ १०.१९॥
पाठ 10.20
स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः ।
देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥ १०.२०॥
पाठ 10.21
तलप्रहाराभिहतो निपपात महीतले ।
स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥ १०.२१॥
पाठ 10.22
उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः ।
तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥ १०.२२॥
पाठ 10.23
नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् ।
चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ॥ १०.२३॥
पाठ 10.24
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह ।
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले ॥ १०.२४॥
सरल हिन्दी भावार्थ: रथ नष्ट होने पर शुम्भ मुद्गर लेकर दौड़ा। देवी ने उसे भी काट दिया। उसने मुष्टि से प्रहार किया और देवी ने हथेली से उसके वक्ष पर प्रहार किया। वह गिरकर फिर उठा और देवी को लेकर आकाश में गया। वहाँ निराधार रहकर भी चण्डिका उससे लड़ीं; अन्त में उसे घुमाकर धरती पर फेंक दिया।
शुम्भ का वध और जगत की शान्ति • पाठ 10.25–10.32
पाठ 10.25
स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगवान् ।
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥ १०.२५॥
पाठ 10.26
तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् ।
जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ॥ १०.२६॥
पाठ 10.27
स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः ।
चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ॥ १०.२७॥
पाठ 10.28
ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ।
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥ १०.२८॥
पाठ 10.29
उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः ।
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥ १०.२९॥
पाठ 10.30
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ।
बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः ॥ १०.३०॥
पाठ 10.31
अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः ।
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥ १०.३१॥
पाठ 10.32
जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः ॥ १०.३२॥
सरल हिन्दी भावार्थ: शुम्भ फिर मुट्ठी उठाकर देवी को मारने दौड़ा। देवी ने उसके वक्ष में शूल मारकर उसे गिरा दिया। उसके गिरने से पृथ्वी हिली। उसके मारे जाने पर आकाश निर्मल हुआ, उत्पात शान्त हुए और नदियाँ अपने मार्ग से बहने लगीं। देवता, गन्धर्व और अप्सराएँ आनन्दित हुए; शुभ वायु चली और सूर्य तथा अग्नि का प्रकाश शान्त हुआ।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्म्ये शुम्भवधो नाम दशमोऽध्यायः ॥ १०॥
उत्तरचरित्र • महासरस्वती
अध्याय 11 • नारायणी स्तुति
परंपरागत पाठ-क्रमांक 1–55
। ध्यानम् ।
ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥
ध्यान एवं विनियोग का भाव: ध्यान में बालसूर्य जैसी कान्ति, चन्द्रमुकुट, तीन नेत्र और मुस्कराते मुख वाली भुवनेश्वरी का स्मरण है। वे वर, अभय, अंकुश और पाश धारण करती हैं।
विश्वमाता से प्रसन्न होने की प्रार्थना • पाठ 11.1–11.7
पाठ 11.1
ॐ ऋषिरुवाच ॥ ११.१॥
पाठ 11.2
देव्या हते तत्र महासुरेन्द्रे
सेन्द्राः सुरा वह्निपुरोगमास्ताम् ।
कात्यायनीं तुष्टुवुरिष्टलाभाद्
विकाशिवक्त्राब्जविकाशिताशाः ॥ ११.२॥
पाठ 11.3
देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य ॥ ११.३॥
पाठ 11.4
आधारभूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि ।
अपां स्वरूपस्थितया त्वयैत-
दाप्यायते कृत्स्नमलङ्घ्यवीर्ये ॥ ११.४॥
पाठ 11.5
त्वं वैष्णवीशक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत्
त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ११.५॥
पाठ 11.6
विद्याः समस्तास्तव देवि भेदाः
स्त्रियः समस्ताः सकला जगत्सु ।
त्वयैकया पूरितमम्बयैतत्
का ते स्तुतिः स्तव्यपरापरोक्तिः ॥ ११.६॥
पाठ 11.7
सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी ।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥ ११.७॥
सरल हिन्दी भावार्थ: देवताओं ने अग्नि को आगे करके कात्यायनी की स्तुति की। वे कहते हैं—हे शरणागतों का दुःख दूर करने वाली विश्वमाता! प्रसन्न हों और चराचर जगत की रक्षा करें। पृथ्वी और जल के रूप में आप ही सबका आधार तथा पोषण हैं। आप अनन्त वैष्णवी शक्ति और परम माया हैं; प्रसन्न होने पर मुक्ति देती हैं। समस्त विद्याएँ और संसार की सभी स्त्रियाँ आपके स्वरूप हैं; आपकी पूर्ण स्तुति कौन कर सकता है?
नारायणी को बारम्बार नमस्कार • पाठ 11.8–11.12
पाठ 11.8
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥ ११.८॥
पाठ 11.9
कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥ ११.९॥
पाठ 11.10
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ११.१०॥
पाठ 11.11
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥ ११.११॥
पाठ 11.12
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ११.१२॥
सरल हिन्दी भावार्थ: हे सबके हृदय में बुद्धिरूप से स्थित, स्वर्ग और मोक्ष देने वाली नारायणी! आपको नमस्कार है। काल के रूप में परिवर्तन करने वाली, सर्वमंगलमयी, कल्याणस्वरूपा, सभी उद्देश्यों को सिद्ध करने वाली, शरण देने वाली त्रिनयनी गौरी को नमस्कार है। सृष्टि, स्थिति और विनाश की सनातन शक्ति तथा शरणागत दीन-दुखियों का उद्धार करने वाली देवी को प्रणाम है।
देवी के विविध युद्धरूपों का वन्दन • पाठ 11.13–11.21
पाठ 11.13
हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।
कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥ ११.१३॥
पाठ 11.14
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।
माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते ॥ ११.१४॥
पाठ 11.15
मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ।
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥ ११.१५॥
पाठ 11.16
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥ ११.१६॥
पाठ 11.17
गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे ।
वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥ ११.१७॥
पाठ 11.18
नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥ ११.१८॥
पाठ 11.19
किरीटिनि महावज्रे सहस्रनयनोज्ज्वले ।
वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥ ११.१९॥
पाठ 11.20
शिवदूतीस्वरूपेण हतदैत्यमहाबले ।
घोररूपे महारावे नारायणि नमोऽस्तु ते ॥ ११.२०॥
पाठ 11.21
दंष्ट्राकरालवदने शिरोमालाविभूषणे ।
चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥ ११.२१॥
सरल हिन्दी भावार्थ: ब्रह्माणी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, नारसिंही और ऐन्द्री रूपों में देवी को प्रणाम है। स्तुति उनके वाहन, आयुध और जगत की रक्षा करने वाले कार्यों का स्मरण करती है। शिवदूती और चण्ड-मुण्ड का मर्दन करने वाली चामुण्डा रूप में भी नारायणी का वन्दन है।
समस्त शक्तियों की अधिष्ठात्री से रक्षा • पाठ 11.22–11.28
पाठ 11.22
लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे ।
महारात्रि महामाये नारायणि नमोऽस्तु ते ॥ ११.२२॥
पाठ 11.23
मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते ॥ ११.२३॥
पाठ 11.24
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ११.२४॥
पाठ 11.25
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥ ११.२५॥
पाठ 11.26
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥ ११.२६॥
पाठ 11.27
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥ ११.२७॥
पाठ 11.28
असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥ ११.२८॥
सरल हिन्दी भावार्थ: लक्ष्मी, लज्जा, महाविद्या, श्रद्धा, पुष्टि, स्वधा, मेधा, सरस्वती, महामाया और नियति के रूप में देवी को नमस्कार है। देवता कहते हैं—हे सर्वरूपा, सर्वेश्वरी, सर्वशक्तिमयी दुर्गे! भयों से रक्षा करें। आपका सौम्य मुख, उग्र त्रिशूल, घण्टा और उज्ज्वल खड्ग हमारे कल्याण तथा रक्षा का साधन बनें।
सर्वत्र रक्षा और कल्याण की प्रार्थना • पाठ 11.29–11.35
पाठ 11.29
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ ११.२९॥
पाठ 11.30
एतत्कृतं यत्कदनं त्वयाद्य
धर्मद्विषां देवि महासुराणाम् ।
रूपैरनेकैर्बहुधात्ममूर्तिं
कृत्वाम्बिके तत्प्रकरोति कान्या ॥ ११.३०॥
पाठ 11.31
विद्यासु शास्त्रेषु विवेकदीपे-
ष्वाद्येषु वाक्येषु च का त्वदन्या ।
ममत्वगर्तेऽतिमहान्धकारे
विभ्रामयत्येतदतीव विश्वम् ॥ ११.३१॥
पाठ 11.32
रक्षांसि यत्रोग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र ।
दावानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वं परिपासि विश्वम् ॥ ११.३२॥
पाठ 11.33
विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीह विश्वम् ।
विश्वेशवन्द्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्राः ॥ ११.३३॥
पाठ 11.34
देवि प्रसीद परिपालय नोऽरिभीते-
र्नित्यं यथासुरवधादधुनैव सद्यः ।
पापानि सर्वजगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान् ॥ ११.३४॥
पाठ 11.35
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥ ११.३५॥
सरल हिन्दी भावार्थ: स्तुति में देवी की प्रसन्नता से रोगों और विपत्तियों के निवारण तथा उनके आश्रितों के समर्थ बनने का वर्णन है। देवता कहते हैं—आपकी माया ही ममता के अन्धकार में जगत को भ्रमित करती है; आप ही संकट, वनाग्नि, शत्रु और समुद्र में रक्षा करती हैं। हे विश्वात्मिका! जगत के पाप और उत्पात शान्त करें, हम पर कृपा करें और सभी लोकों का कल्याण करें।
आगे भी रक्षा करने का वचन • पाठ 11.36–11.42
पाठ 11.36
देव्युवाच ॥ ११.३६॥
पाठ 11.37
वरदाहं सुरगणा वरं यन्मनसेच्छथ ।
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥ ११.३७॥
पाठ 11.38
देवा ऊचुः ॥ ११.३८॥
पाठ 11.39
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ११.३९॥
पाठ 11.40
देव्युवाच ॥ ११.४०॥
पाठ 11.41
वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥ ११.४१॥
पाठ 11.42
नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥ ११.४२॥
सरल हिन्दी भावार्थ: देवी ने जगत के हित का वर माँगने को कहा। देवताओं ने प्रार्थना की कि आप इसी प्रकार सब बाधाएँ शान्त करें और विरोधी असुरों का नाश करती रहें। देवी ने भविष्य में शुम्भ-निशुम्भ जैसे असुरों के उत्पन्न होने पर नन्दगोप के घर यशोदा से जन्म लेकर विन्ध्याचल में निवास करते हुए उनका नाश करने की बात कही।
रक्तदन्तिका, शताक्षी और शाकम्भरी • पाठ 11.43–11.49
पाठ 11.43
पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।
अवतीर्य हनिष्यामि वैप्रचित्तांश्च दानवान् ॥ ११.४३॥
पाठ 11.44
भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान् ।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ ११.४४॥
पाठ 11.45
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥ ११.४५॥
पाठ 11.46
भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ।
मुनिभिः संस्मृता भूमौ सम्भविष्याम्ययोनिजा ॥ ११.४६॥
पाठ 11.47
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् ।
कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥ ११.४७॥
पाठ 11.48
ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।
भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥ ११.४८॥
पाठ 11.49
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥ ११.४९॥
सरल हिन्दी भावार्थ: देवी ने वैप्रचित्त दानवों का उग्र रूप से संहार करने पर रक्तदन्तिका नाम से प्रसिद्ध होने का वर्णन किया। दीर्घ अनावृष्टि में मुनियों की प्रार्थना से अयोनिज रूप में प्रकट होकर सौ नेत्रों से देखने के कारण वे शताक्षी कहलाएँगी। अपने शरीर से उत्पन्न शाकों द्वारा प्राणियों का पोषण करके शाकम्भरी नाम पाएँगी और दुर्गम असुर का वध करेंगी।
दुर्गा, भीमा और भ्रामरी • पाठ 11.50–11.55
पाठ 11.50
दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ।
पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥ ११.५०॥
पाठ 11.51
रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् ।
तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥ ११.५१॥
पाठ 11.52
भीमादेवीति विख्यातं तन्मे नाम भविष्यति ।
यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥ ११.५२॥
पाठ 11.53
तदाहं भ्रामरं रूपं कृत्वासङ्ख्येयषट्पदम् ।
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥ ११.५३॥
पाठ 11.54
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः ।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥ ११.५४॥
पाठ 11.55
तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ॥ ११.५५॥
सरल हिन्दी भावार्थ: दुर्गम के वध से देवी दुर्गा नाम से प्रसिद्ध होंगी। हिमालय में मुनियों की रक्षा के लिए उग्र रूप धारण करके भीमा कहलाएँगी। अरुण नामक असुर से तीनों लोक पीड़ित होने पर असंख्य भ्रमरों का रूप धारण करके उसका वध करेंगी और भ्रामरी नाम पाएँगी। देवी कहती हैं—जब-जब दानवों से बाधा उत्पन्न होगी, तब-तब प्रकट होकर उसका निवारण करूँगी।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
नारायणीस्तुतिर्नामैकादशोऽध्यायः ॥ ११॥
उत्तरचरित्र • महासरस्वती
अध्याय 12 • देवी-वचन और पाठ की महिमा
परंपरागत पाठ-क्रमांक 1–41
। ध्यानम् ।
ॐ विद्युद्धामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवाळखेटविलसधस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
ध्यान एवं विनियोग का भाव: ध्यान में विद्युत जैसी कान्ति, सिंह के कन्धे पर स्थित, त्रिनेत्र और चन्द्रधारिणी दुर्गा का स्मरण है। वे अनेक आयुध धारण करती हैं और सेविकाओं से घिरी हैं।
माहात्म्य के पाठ और श्रवण का फल • पाठ 12.1–12.8
पाठ 12.1
ॐ देव्युवाच ॥ १२.१॥
पाठ 12.2
एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः ।
तस्याहं सकलां बाधां शमयिष्याम्यसंशयम् ॥ १२.२॥
पाठ 12.3
मधुकैटभनाशं च महिषासुरघातनम् ।
कीर्तयिष्यन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः ॥ १२.३॥
पाठ 12.4
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ।
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥ १२.४॥
पाठ 12.5
न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः ।
भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥ १२.५॥
पाठ 12.6
शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः ।
न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति ॥ १२.६॥
पाठ 12.7
तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः ।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ १२.७॥
पाठ 12.8
उपसर्गानशेषांस्तु महामारीसमुद्भवान् ।
तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥ १२.८॥
सरल हिन्दी भावार्थ: देवी कहती हैं—जो एकाग्र होकर इन स्तुतियों से मेरा स्तवन करेंगे और मधु-कैटभ, महिषासुर तथा शुम्भ-निशुम्भ के संहार का चरित्र भक्तिपूर्वक सुनेंगे, उनकी बाधाएँ शान्त करूँगी। अष्टमी, नवमी और चतुर्दशी के श्रद्धापूर्ण श्रवण की महिमा कही गई है। पापजनित संकट, दरिद्रता, प्रियजनों से वियोग, शत्रु तथा अन्य भय दूर होने का फलश्रुति में वर्णन है। इसलिए इस माहात्म्य का श्रद्धापूर्वक पाठ और श्रवण करना चाहिए।
पूजा और शरद्कालीन महापूजा • पाठ 12.9–12.15
पाठ 12.9
यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम ।
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम् ॥ १२.९॥
पाठ 12.10
बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ।
सर्वं ममैतन्माहात्म्यम् उच्चार्यं श्राव्यमेव च ॥ १२.१०॥
पाठ 12.11
जानताजानता वापि बलिपूजां यथा कृताम् ।
प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं तथाकृतम् ॥ १२.११॥
पाठ 12.12
शरत्काले महापूजा क्रियते या च वार्षिकी ।
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥ १२.१२॥
पाठ 12.13
सर्वाबाधाविनिर्मुक्तो धनधान्यसमन्वितः ।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥ १२.१३॥
पाठ 12.14
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः ।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥ १२.१४॥
पाठ 12.15
रिपवः सङ्क्षयं यान्ति कल्याणं चोपपद्यते ।
नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥ १२.१५॥
सरल हिन्दी भावार्थ: देवी कहती हैं कि जहाँ उनके स्थान पर इस माहात्म्य का सम्यक् पाठ होता है, वहाँ उनका सान्निध्य रहता है। पूजा, होम और महोत्सवों में चरित्र सुनाने का विधान है। शरद्कालीन वार्षिक महापूजा में भक्तिपूर्वक माहात्म्य सुनने से बाधाओं से मुक्ति और शुभ समृद्धि का फल बताया गया है। देवी के जन्म और युद्धपराक्रम का श्रवण निर्भयता तथा परिवार के कल्याण का हेतु कहा गया है।
शान्ति, मैत्री और शुभ बुद्धि • पाठ 12.16–12.24
पाठ 12.16
शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने ।
ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम ॥ १२.१६॥
पाठ 12.17
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः ।
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ॥ १२.१७॥
पाठ 12.18
बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।
सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥ १२.१८॥
पाठ 12.19
दुर्वृत्तानामशेषाणां बलहानिकरं परम् ।
रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥ १२.१९॥
पाठ 12.20
सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् ।
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः ॥ १२.२०॥
पाठ 12.21
विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् ।
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या ॥ १२.२१॥
पाठ 12.22
प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते ।
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥ १२.२२॥
पाठ 12.23
रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ।
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥ १२.२३॥
पाठ 12.24
तस्मिञ्छ्रुते वैरिकृतं भयं पुंसां न जायते ।
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः ॥ १२.२४॥
सरल हिन्दी भावार्थ: दुःस्वप्न, ग्रहपीड़ा, बालकों की बाधा और लोगों के परस्पर विवाद में माहात्म्य के श्रवण की शान्तिदायक महिमा कही गई है। देवी बताती हैं कि यह पाठ उनके सान्निध्य का साधन है और अनेक उपचारों से किए पूजन के समान प्रीति उत्पन्न करता है। चरित्र का श्रवण तथा देवताओं और ब्रह्मर्षियों द्वारा की गई स्तुतियाँ पापभय दूर करके शुभ बुद्धि प्रदान करें—यहाँ यही मंगलभाव है।
संकट में देवीचरित्र का स्मरण • पाठ 12.25–12.30
पाठ 12.25
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम् ।
अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ॥ १२.२५॥
पाठ 12.26
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः ।
सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ॥ १२.२६॥
पाठ 12.27
राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ।
आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥ १२.२७॥
पाठ 12.28
पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे ।
सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ॥ १२.२८॥
पाठ 12.29
स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात् ।
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ॥ १२.२९॥
पाठ 12.30
दूरादेव पलायन्ते स्मरतश्चरितं मम ॥ १२.३०॥
सरल हिन्दी भावार्थ: वन, निर्जन प्रदेश, दावानल, शत्रु, बन्धन, समुद्री तूफान और युद्ध जैसे संकटों में देवीचरित्र के स्मरण से रक्षा की महिमा कही गई है। भक्त के लिए यह स्मरण कठिन परिस्थिति में देवी की शरण और निर्भयता का आधार है। यह प्रसंग पाठ की धार्मिक फलश्रुति का अंग है।
देवताओं का अधिकार पुनः स्थापित • पाठ 12.31–12.36
पाठ 12.31
ऋषिरुवाच ॥ १२.३१॥
पाठ 12.32
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ॥ १२.३२॥
पाठ 12.33
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत ।
तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा ॥ १२.३३॥
पाठ 12.34
यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः ।
दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि ॥ १२.३४॥
पाठ 12.35
जगद्विध्वंसके तस्मिन् महोग्रेऽतुलविक्रमे ।
निशुम्भे च महावीर्ये शेषाः पातालमाययुः ॥ १२.३५॥
पाठ 12.36
एवं भगवती देवी सा नित्यापि पुनः पुनः ।
सम्भूय कुरुते भूप जगतः परिपालनम् ॥ १२.३६॥
सरल हिन्दी भावार्थ: इतना कहकर चण्डिका देवताओं के सामने ही अन्तर्धान हो गईं। भय और शत्रुओं से मुक्त देवता फिर अपने पूर्व अधिकार तथा यज्ञभाग प्राप्त करने लगे। शुम्भ-निशुम्भ के मारे जाने पर बचे हुए असुर पाताल चले गए। ऋषि कहते हैं—नित्य होने पर भी देवी बार-बार प्रकट होकर जगत का पालन करती हैं।
एक देवी के सृष्टि और संहाररूप • पाठ 12.37–12.41
पाठ 12.37
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते ।
सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥ १२.३७॥
पाठ 12.38
व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर ।
महादेव्या महाकाली महामारीस्वरूपया ॥ १२.३८॥
पाठ 12.39
सैव काले महामारी सैव सृष्टिर्भवत्यजा ।
स्थितिं करोति भूतानां सैव काले सनातनी ॥ १२.३९॥
पाठ 12.40
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे ।
सैवाभावे तथालक्ष्मीर्विनाशायोपजायते ॥ १२.४०॥
पाठ 12.41
स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा ।
ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् ॥ १२.४१॥
सरल हिन्दी भावार्थ: वही देवी जगत को उत्पन्न करती, अपनी माया से मोहित करती और प्रसन्न होने पर ज्ञान तथा समृद्धि देती हैं। सम्पूर्ण ब्रह्माण्ड उनसे व्याप्त है। काल के अनुसार वे सृष्टि, स्थिति और संहार की शक्ति हैं। शुभ समय में लक्ष्मी और अभाव में अलक्ष्मी के रूप में प्रकट होती हैं। उनकी स्तुति और पूजा से धर्मबुद्धि तथा शुभ गति की प्राप्ति बताई गई है।
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
भगवती वाक्यं द्वादशोऽध्यायः ॥ १२॥
उत्तरचरित्र • महासरस्वती
अध्याय 13 • सुरथ और वैश्य को वरदान
परंपरागत पाठ-क्रमांक 1–29
। ध्यानम् ।
ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशवराभीतिर्धारयन्तीं शिवां भजे ॥
ध्यान एवं विनियोग का भाव: ध्यान में बालसूर्य के समान प्रकाश वाली, चार भुजाओं और तीन नेत्रों से सम्पन्न शिवा का स्मरण है। वे पाश, अंकुश, वर और अभय धारण करती हैं।
परमेश्वरी की शरण का उपदेश • पाठ 13.1–13.5
पाठ 13.1
ॐ ऋषिरुवाच ॥ १३.१॥
पाठ 13.2
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवं प्रभावा सा देवी ययेदं धार्यते जगत् ॥ १३.२॥
पाठ 13.3
विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥ १३.३॥
पाठ 13.4
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ।
तामुपैहि महाराज शरणं परमेश्वरीम् ॥ १३.४॥
पाठ 13.5
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥ १३.५॥
सरल हिन्दी भावार्थ: ऋषि कहते हैं—राजन्! मैंने देवी का उत्तम माहात्म्य सुना दिया। उन्हीं की शक्ति से जगत धारण होता है। तुम, यह वैश्य और अन्य विवेकी भी उनकी माया से मोहित होते हैं। अतः उन्हीं परमेश्वरी की शरण जाओ। आराधना करने पर वे भोग, स्वर्ग और मोक्ष प्रदान करती हैं।
सुरथ और समाधि की आराधना • पाठ 13.6–13.13
पाठ 13.6
मार्कण्डेय उवाच ॥ १३.६॥
पाठ 13.7
इति तस्य वचः श्रुत्वा सुरथः स नराधिपः ॥ १३.७॥
पाठ 13.8
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ।
निर्विण्णोऽतिममत्वेन राज्यापहरणेन च ॥ १३.८॥
पाठ 13.9
जगाम सद्यस्तपसे स च वैश्यो महामुने ।
सन्दर्शनार्थमम्बाया नदीपुलिनमास्थितः ॥ १३.९॥
पाठ 13.10
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ।
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् ॥ १३.१०॥
पाठ 13.11
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ।
निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ ॥ १३.११॥
पाठ 13.12
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् ।
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः ॥ १३.१२॥
पाठ 13.13
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥ १३.१३॥
सरल हिन्दी भावार्थ: ऋषि को प्रणाम करके राजा सुरथ और समाधि वैश्य देवी के दर्शन की इच्छा से नदी के तट पर गए। उन्होंने मिट्टी की देवीमूर्ति बनाकर पुष्प, धूप और अग्नि आदि से आराधना की, देवीसूक्त का जप किया और एकाग्र तप में लगे रहे। उनकी दीर्घ आराधना से संतुष्ट जगद्धात्री चण्डिका प्रत्यक्ष हुईं।
दो भक्तों की भिन्न प्रार्थनाएँ • पाठ 13.14–13.18
पाठ 13.14
देव्युवाच ॥ १३.१४॥
पाठ 13.15
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन ।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते ॥ १३.१५॥
पाठ 13.16
मार्कण्डेय उवाच ॥ १३.१६॥
पाठ 13.17
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि ।
अत्रैव च निजं राज्यं हतशत्रुबलं बलात् ॥ १३.१७॥
पाठ 13.18
सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ।
ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् ॥ १३.१८॥
सरल हिन्दी भावार्थ: देवी ने दोनों से मनोवांछित वर माँगने को कहा। राजा सुरथ ने शत्रुओं पर विजय के साथ इसी जन्म में अपना राज्य वापस पाने और अगले जन्म में अचल राज्य की प्रार्थना की। संसार से विरक्त समाधि वैश्य ने “मैं” और “मेरा” की आसक्ति दूर करने वाला ज्ञान माँगा।
देवी का वरदान • पाठ 13.19–13.25
पाठ 13.19
देव्युवाच ॥ १३.१९॥
पाठ 13.20
स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् ॥ १३.२०॥
पाठ 13.21
हत्वा रिपूनस्खलितं तव तत्र भविष्यति ॥ १३.२१॥
पाठ 13.22
मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः ॥ १३.२२॥
पाठ 13.23
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति ॥ १३.२३॥
पाठ 13.24
वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः ॥ १३.२४॥
पाठ 13.25
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति ॥ १३.२५॥
सरल हिन्दी भावार्थ: देवी ने राजा से कहा—तुम शीघ्र ही शत्रुओं को पराजित करके अपना राज्य प्राप्त करोगे और वह स्थिर रहेगा। मृत्यु के बाद सूर्यदेव से जन्म लेकर सावर्णि मनु बनोगे। वैश्य से उन्होंने कहा—तुमने जिस ज्ञान का वर माँगा है, वह तुम्हें प्राप्त होगा।
चरित्र का समापन • पाठ 13.26–13.29
पाठ 13.26
मार्कण्डेय उवाच ॥ १३.२६॥
पाठ 13.27
इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ॥ १३.२७॥
पाठ 13.28
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ।
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ॥ १३.२८॥
पाठ 13.29
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ १३.२९॥
सरल हिन्दी भावार्थ: मार्कण्डेय ऋषि कहते हैं—दोनों भक्तों को उनकी इच्छा के अनुरूप वर देकर देवी अन्तर्धान हो गईं। इसी वर के प्रभाव से राजा सुरथ आगे सूर्यपुत्र सावर्णि मनु होंगे। इस प्रकार देवीमाहात्म्य का संवाद और सम्पूर्ण मुख्य चरित्र समाप्त होता है।
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ क्लीं ॐ ॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॥ १३॥
॥ श्रीसप्तशतीदेवीमाहात्म्यं समाप्तम् ॥
॥ ॐ तत् सत् ॐ ॥
अथ अपराधक्षमापणस्तोत्रम्
ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १॥
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ २॥
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ३॥
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ४॥
सर्वरूपमयी देवी सर्वं देवीमयं जगत् ।
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् ॥ ५॥
यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् ।
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि ॥ ६॥
यदत्र पाठे जगदम्बिके मया
विसर्गबिन्द्वक्षरहीनमीरितम् ।
तदस्तु सम्पूर्णतमं प्रसादतः
सङ्कल्पसिद्धिश्च सदैव जायताम् ॥ ७॥
यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्तमव्यक्तमम्ब ।
मोहादज्ञानतो वा पठितमपठितं साम्प्रतं ते स्तवेऽस्मिन्
तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद ॥ ८॥
प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले ।
प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते ॥ ९॥
॥ इति अपराधक्षमापणस्तोत्रं समाप्तम् ॥
अपराधक्षमापण का सरल भावार्थ
हे जगदम्बा! मैं त्रुटियों सहित आपकी शरण आया हूँ; कृपा करके मुझे अपनाइए। अज्ञान, विस्मृति और भ्रम से पूजा या पाठ में जो कमी-बेसी हुई हो, उसे क्षमा करें। अक्षर, मात्रा, विसर्ग, बिन्दु, पद और क्रम की भूलें आपके प्रसाद से पूर्ण हों। श्रद्धा और समझ में जो कमी रही हो, उसे भी क्षमा करें। हे भक्तवत्सला दुर्गे! प्रसन्न होकर मेरी पूजा स्वीकार करें; आपको नमस्कार है।
अथ देवीसूक्तम्
ॐ अहं रुद्रेभिर्वसुभिश्चराम्यह-
मादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यह-
मिन्द्राग्नी अहमश्विनोभा ॥ १॥
अहं सोममाहनसं बिभर्म्यहं
त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते
सुप्राव्ये यजमानाय सुन्वते ॥ २॥
अहं राष्ट्री सङ्गमनी वसूनां
चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा
भूरिस्थात्रां भूर्यावेशयन्तीम् ॥ ३॥
मया सो अन्नमत्ति यो विपश्यति
यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उपक्षियन्ति
श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ ४॥
अहमेव स्वयमिदं वदामि जुष्टं
देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि
तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५॥
अहं रुद्राय धनुरा तनोमि
ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोम्यहं
द्यावापृथिवी आ विवेश ॥ ६॥
अहं सुवे पितरमस्य मूर्धन्
मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्वो-
तामूं द्यां वर्ष्मणोप स्पृशामि ॥ ७॥
अहमेव वात इव प्र वाम्या-
रभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यै-
तावती महिना सं बभूव ॥ ८॥
॥ इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ॥
॥ ॐ तत् सत् ॐ ॥
ऋग्वेदोक्त देवीसूक्त का सरल भावार्थ
सूक्त में देवी सार्वभौम चेतन शक्ति के रूप में कहती हैं—मैं रुद्रों, वसुओं, आदित्यों और विश्वेदेवों के साथ विचरती तथा मित्र-वरुण, इन्द्र-अग्नि और अश्विनीकुमारों को धारण करती हूँ। मैं सोम, त्वष्टा, पूषा और भग का आधार हूँ तथा यज्ञकर्ता को फल देती हूँ। मैं राष्ट्र की अधिष्ठात्री, सम्पदाओं को एकत्र करने वाली और ज्ञानस्वरूपा हूँ। मेरे द्वारा ही प्राणी भोजन, दर्शन, श्वास और श्रवण करते हैं। जिसे चाहती हूँ उसे मेधा और ऋषित्व देती हूँ। मैं धर्मविरोध का प्रतिकार करने वाली शक्ति हूँ और द्युलोक-पृथ्वी में व्याप्त हूँ। मेरी महिमा समस्त भुवनों और आकाश-पृथ्वी की सीमा से भी परे है।
ग्रंथ और पाठ के विषय में
यह मार्कण्डेयपुराण के देवीमाहात्म्य का संस्कृत पठन-पाठ है। पाठाधार के रूप में Sanskrit Documents का उपलब्ध “देवी माहात्म्यम् वा दुर्गासप्तशती” पाठ लिया गया है। मूल के अध्याय-क्रम, संयुक्त क्रमांक, विनियोग, ध्यान और समापन को बनाए रखा गया है; वेब-स्रोत के तकनीकी संकेत और अलग गणना-टिप्पणियाँ पाठ से हटाई गई हैं। हिन्दी भावार्थ भक्ति भावना की स्वतंत्र संपादकीय प्रस्तुति है। विभिन्न मुद्रित परंपराओं में संधि, वर्तनी और कुछ पाठों का अन्तर मिलता है। कवच तथा अन्य सहायक स्तोत्र मुख्य तेरह अध्यायों से अलग पाठांग हैं।
॥ श्रीसप्तशतीदेवीमाहात्म्यं सम्पूर्णम् ॥
माँ जगदम्बा के चरणों में भक्तिपूर्वक प्रणाम।
← ग्रंथालय में लौटें
टिप्पणियाँ
एक टिप्पणी भेजें
🙏 जय श्री राम 🙏
अपनी श्रद्धा, सुझाव या प्रतिक्रिया कमेंट में अवश्य लिखें।
कृपया भाषा शालीन और सम्मानजनक रखें।
🚩 भक्ति भावना परिवार से जुड़े रहने के लिए धन्यवाद।